SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः । २९७ अत्र कुटबन्धादीनां क्रियाणां कारणभूतानामभावेऽपि द्विषञ्जयत् कार्याद् राज्ञः प्रतापातिशयो गम्यते । 46 Acharya Shri Kailassagarsuri Gyanmandir द्रव्याभावे यथा— " एकचक्रो रथो यन्ता विकलो विषमा हयाः । आक्रामत्येव तेजस्वी तथाप्यक जगत्रयम् ।। ८५१ ॥ " अत्र विशिष्टरथादीनां कारणानामभावेऽपि जगत्रयाक्रमणात् कार्यादर्कस्य महिमोत्कर्षो व्यज्यते । नैसर्गिक सौन्दर्यविभावनं यथाअनञ्जिताऽसिता दृष्टिस्तूरमावर्जिता मता । अरञ्जितारुणश्चायमधरस्तव सुन्दरि ! ।। ८५२ ॥ 39 अत्राञ्जितत्वादीनां कारणानामभावेऽप्यसितत्वादेः कार्याद् दृष्ट्यादीनामसितत्वादि सौन्दर्य स्वाभाविकमभिव्यज्यते' | यथा वा " असम्भृतं मण्डनमङ्गयष्टेरनासवाख्यं करणं मदस्य । " कामस्य पुष्पव्यतिरिक्तमस्त्रं वान्यात् परं साऽथ वयः प्रपेदे ॥। ८५३ || अत्र सम्भृतत्वादीनां कारणानामभावेऽपि मण्डनत्वादेः कार्या यौवनस्य स्वाभाविकं कामनीयं विद्यते । इयं च मालारूपाऽपि दृश्यते । यथा" अनिद्रो दुःस्वप्नः प्रपतनमनद्रि मतटं जराहीनः कम्पस्तिमिररहितस्त्राससमयः । अनघातं दुःखं विगतनिगडा बन्धनष्टतिः सजीवं जन्तूनां मरणमवनीशाश्रयरसः || ८५४ ॥ " अथास्या: स्वरूपान्तरमाह अत्रापि कारणेऽभावस्तदविरुद्धभवः क्वचित् ॥ ५५ ॥ १ अ. व्याद्वाशः । २ प ०ते अ० । १८ For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy