SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २९६ 4 एवं द्यूतं हि नाम पुरुषस्यासिंहासनं राज्यम् ।' 'हस्ती हि जङ्गमं दुर्गम् । ' ' वेश्या हि नाम मूर्तिमत्येव विक्रेतिः । ' इत्याद्यपि द्रष्टव्यमिति ।। ५३ ।। अथ विभावनामाह - जात्यादीनामभावेऽपि कारणानां फलोदयात् । विभाव्यते चमत्कारकारणं कारणान्तरम् ॥ ५४ ॥ यद्वा नैसर्गिकं यत्र सौन्दर्यं सा विभावना | अलङ्कारम Acharya Shri Kailassagarsuri Gyanmandir यत्र यस्यां जात्यादीनां जाति-गुण-क्रिया-द्रव्याणां प्रसिद्धानां कारणानामभावेऽप्यसत्तायामपि फलोदयात् कार्योत्पादाच्चमत्कारकारणं जगद्विस्मयहेतुस्तस्य कार्यस्याप्रसिद्धं कारणान्तरम् ॥ ५४ ॥ यदि वा तस्यैव नैसर्गिकं स्वाभाविकं किञ्चित् सौन्दर्य रामणीयकं विभाव्यते प्रतीयते सा विभावना नामालङ्कृतिः । तत्र जात्यभावे यथा— " न देवकन्यका नीपि गन्धर्व कुलसम्भवा । तथाप्येषा तपोभङ्गं विधातुं वेधसोऽप्यलम् || ८४८ ॥ अत्र देवकन्यकात्वादिजातेः कारणभूताया अभावेऽपि तपोभङ्गविधानात् कार्यानायिकाया रूपातिशयः कारणान्तरं भाव्यते । गुणाभावे यथा 16 न कठोरं न वा तीक्ष्णमायुधं पुष्पधन्वनः । " तथापि जितमेवाभूदमुना भुवनत्रयम् ॥। ८४९ ॥ १ अ. निकृतिः । २ अ. कापि । ܕܕ अत्र कठोरत्व-तैक्ष्ण्ययोर्गुणयोः कारण योरभावेऽपि जगत्रयजयरूपात् कार्यात् पुष्पधन्वनः प्रभावातिशयः प्रतीयते । क्रियाऽभावे यथा 61 न बद्धा कुटिर्नापि स्फुरितो दशनच्छदः । " न च रक्ताऽभवद् दृष्टिर्जितं च द्विषतां कुलम् ॥ ८५० ॥ For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy