________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अर्थालङ्कारवर्णनो नामाष्टमस्तरमः। अत्र निद्रानिवृत्यादिके कारणौधे सत्यप्यालिङ्गनाचलनं कार्य न सञ्जातम्, निमित्तं च सुखस्वादादिकं किश्चिमोक्तम् ।
तृतीया यथा" स एकत्रीणि जयति जगन्ति कृसुमायुधः ।
हरताऽपि तनुं त(य)स्य शम्भुना न हृतं बलम् ॥ ८४५ ॥ अत्र तनुहरणे कारणे सत्यपि बलहरणं कार्य नाभवदचिन्त्यं चात्र निमित्तं प्रतीत्यगोचरत्वात् ।
अथ कार्याभावस्वरूपमाहफलाभावः क्वचित् कार्ये विरुद्धोत्पत्तिसम्भवः ॥ ५२ । कचित् कार्ये फलाभावः कार्याभावस्तस्य कार्यस्य यद् विरुद्ध कार्य तस्य या उत्पत्तिस्तत्सम्भवो निबध्यते । यथा- 'कपूर इन दग्धोऽपि' इत्यत्राशक्तस्वा. ख्यस्य कार्यस्थामावस्तद्विरुद्धशक्तिमत्त्वकार्यमुखेनोपनिबद्धः॥ ५२ ।।
अथास्या एव प्रकारान्तरमाहहानिकल्पनया कस्याप्येकस्यैव गुणस्य यत् । दृढतां नीयते साम्यं विशेषोक्तिस्तु साऽपरा ॥ ५३॥ सादृश्यहेतूनां गुणानां मध्ये कस्यचिदेकस्यैव गुणस्य हानिकम्पनया यदुपमानोपमेययोः साम्य मौपम्यं दृढत्वं प्राप्यते सा पुनरपरा विशेषोक्तिः । इयं च प्रायो रूपकसौरम्यगर्भेव भवति । यथा" अव्योमव्यतिषङ्गमाननमिदं विम्बं सुधादीधिते
रक्रीडासरसीपयःपरिचये नीलोत्पले ते दृशौ । एतावप्यकलादपाणितुलिती कल्याणकुम्भी कुची सुभ्र ! त्वं पुनरत्रिविष्टपपरीरम्भाऽसि रम्मैव नः ॥ ८४६॥" "
यथा वा" विक्षिप्ताधोक्षजा लक्ष्मीः शची दुश्यवनच्युता । अंशक्षिा च शर्वाणी सेयमुर्वीतलोर्वशी ॥ ८४७॥"
१ अ. शर्वाका ।
For Private And Personal Use Only