SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २९४ अलङ्कारमहोदधौ .. यथा वा" सा बाला वयमप्रगल्भवचसः सा स्त्री वयं कातराः सा पीनोन्नतिमत् पयोधरयुगं धत्ते सखेदा वयम् । साऽऽक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं दोषैरन्यजनाश्रयैरपटवो जाताः स्म इत्यद्भुतम् ॥ ८४२ ॥" अत्रापि बाल्याप्रगल्भवचस्त्वादीनां कारण-कार्याणां स्त्री-पुरुषस्थत्वेन मित्रदेशत्वं तथा बाल्यकृत-स्मरकृतयोरप्रगल्भवचस्त्वयोरभेदाध्यवसायः । अथ विशेषोक्तिमाहविशेषोक्तिः फलाभावः साकल्ये हेतुसम्पदः ॥ ५१ ॥ कारणसामध्ये कार्येण भाव्यमिति व्यवस्थायां यः काचिद् हेतुसम्पदः कारणविभूतः साकन्ये परिपूर्णत्वे सत्यपि कश्चित् फलाभावः कार्याभावः सा विशेषोक्तिरलङ्कृतिः ॥ ५१ ॥ तस्सा भेदानाह.सा च त्रिधा दधत्युक्तानुक्ताचिन्त्यनिमित्तताम् । सा च विशेषोक्तिरुक्तनिमिचतामनुक्तानिमित्ततामचिन्त्यनिमित्ततां च दधतीति विधा त्रिप्रकारा भवति । तत्राद्या यथा "कपुर इव दग्धोऽपि शक्तिमान् यो जने जने । नमोऽस्त्ववार्यवीर्याय तस्मै मकरकेतवे ॥ ८४३ ॥" अत्र सत्यप्यविकले दाहरूपे कारणेऽशक्तत्वाख्यस्य कार्यस्यानुत्पत्तिः । अवार्यवीर्यत्वं च निमित्तमुक्तम् । द्वितीया यथा" निद्रानिवृत्तावुदिते धुरत्ने सखीजने द्वारपरंम्पराप्ते । श्लथीकृताश्लेषरसे भुजङ्गे चचाल नालिङ्गनतोऽङ्गना सा ॥ ८४४ ॥" भ. मनसः । २ प. ० पदं प० । ३ प. ०शेषः । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy