SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः । द्रव्यस्य द्रव्येण यथा" समदमतङ्गजमदजलनिःसङ्गतरङ्गिणीपरिष्वङ्गात् । क्षितितिलक ! त्ययि तटजुषि शङ्करजूटापगाऽपि कालिन्दी ॥८३८॥" एतेषु नलिनीकिसलवादि-दवदहनयोजात्योर्विरहेण काठिन्य-सौकुमार्ययोर्गुणयोर्भूपप्रभावेण जडीकरण-तापकरणक्रिययोर्वस्तुस्वरूपेण गङ्गा-कालि. न्धोद्रव्ययोनृपमहिम्ना च विरोधः समाधीयते । श्लेषजन्माऽप्येष दृश्यते यथा- सन्निहितवालान्धकारा भास्वन्मूर्तिश्च' इत्यादौ । यथा वा-'कुपतिमपि कलत्रवल्लमम् ' इत्यादि । मिन्नविषयत्वेऽपि क्वचिद् विरोधमिच्छन्ति । यथा" कूजितं राजहंसानां वर्धते मदमजुलम् । क्षीयते च मयूराणां रुतमुत्क्रान्तसौष्ठवम् ॥ ८४० ॥" ॥ ५० ॥ अथासङ्गतिमाहकार्य-कारणयोभिन्नदेशतायां स्वसङ्गतिः।। इह यद्देशं कारणं तद्देशमेव कार्यमुत्पद्यमानं दृष्टम् ! न हि महानसस्थो वहिः पर्वतनितम्बस्थं धूमं जनयति ! यदा पुनरेता व्यवस्थामपास्य कार्य-कारणयोः कपश्चिद् भिन्नदेशता निबध्यते । तदा तस्यां सत्यामसङ्गतिर्नामालङ्कतिर्मवति । तुशब्दः पूर्वस्मिन् विषयेक्यमस्यां पुनर्विषयभेद इति व्यतिरेकार्थः । उदाहरणं यथा" शम्भुर्यद्गुणवल्लरीमुपनयत्याकृष्य कर्णान्तिकं भ्रश्यन्ति त्रिपुरावरोधसुदृशां कर्णोत्पलग्रन्थयः । स्वं चास्फालयति प्रकोष्ठकमिमामुन्मुच्य तासामहो! भियन्ते वलयानि दाशरथिना तद् भग्नमीग् धनुः ।। ८४१ ॥" अत्र गुणवल्लाः कर्णान्तिकोपनयनं प्रकोष्ठास्फालनं च कारणं शम्भुस्थं कर्णोत्पलग्रन्थिभ्रंशो वलयभङ्गश्च कार्य त्रिपुरवधूस्थमित्यनयोनिदेशत्वम् For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy