________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः ।
२९१ व्याजस्तुतिः सा या स्तुत्या निन्दया वाऽन्यगम्यता ॥४८॥
सा व्याजरूपा स्तुतियाजेन वा स्तुतियाजस्तुतिः । या स्तुत्याऽर्थवादेन निन्दया वा गर्हया अन्यस्या निन्दायाः स्तुतेर्वा गम्यता प्रतीयमानत्वम् । तत्र स्तुत्या निन्दाया गम्यता । यथा
" नामाप्यन्यतरोनिमीलितमभूत तत् तावदुन्मीलितं - प्रस्थाने स्खलतः स्ववर्मनि विधेरैन्यैर्गृहीतः करः । लोकश्चायमदृष्टदर्शनकृताद् दृग्वैशसादु धृतो .
युक्तं काष्ठिक ! लूनवान् यदसि तामाम्रालिमाकालि कीम् ॥८३३॥" अत्र स्तुतौ वाच्यायां निन्दा गम्यते ।
निन्दया स्तुतेर्गम्यत्वं यथा" इन्दोर्लक्ष्म स्मरविजयिनः कण्ठपीठं मुरारि__र्दिङ्नागानां मदमलमषीमाञ्जि गण्डस्थलानि । अद्याप्युविलयतिलक ! श्यामलिम्नावलिप्ता
न्युद्भासन्ते वद धवलितं किं यशोभिस्त्वदीयैः ।। ८३४ ॥" अत्र किंशब्दवाच्यादधिक्षेपानिन्दायां वाच्यायां कतिपयपदार्थवजे सर्व जगद् भवद्यशोभिर्धवलितमिति स्तुतिः प्रतीयते ॥ ४८ ॥
अथार्थद्वयालङ्कृतत्वसाधाद् व्याजस्तुत्यनन्तरं श्लेषमाहवाक्यमेकमनेकार्थं यत्र श्लेषः स भण्यते । यत्र यस्मिन्नेकं वाक्यं पदसमुदायरूपमनेकार्थ द्विवाद्यर्थविभूषितं भवति । " उदयमयते दिग्मालिन्यं निराकुरुतेतरां
नयति निधनं निद्रामुद्रां प्रवर्तयति क्रियाः। रचयतितरां स्वैराचारप्रवर्तनकर्तनं
बत बत लसत्तेजःपुञ्जो विभाति विभाकरः ॥ ८३५ ॥"
१ अ. प. न्यगृ० । २ प. .म्नानु० । ३ अ. प. नयति । ४ प. तव ब० ।
For Private And Personal Use Only