SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २९० अलङ्कारमहोदधौ सितम् । तेन हर्षचरिते 'अनुरूपो देव्या इत्यात्मसम्भावना'इत्यादावुक्तविषय आक्षेपः । 'बाल इति सुतरामपरित्याज्योऽस्मि रक्षणीय इति भवद्भुजपञ्जरं रक्षास्थानम्' इत्यादौ त्वाक्षेपबुद्धिर्न कार्या । यतो बालत्वादेरुक्तस्य न निषेध्यत्वेन प्रतीतिः, प्रत्युत परित्यागनिषेधकत्वेन ततो व्याघातभेद एवायं नाक्षेपः॥४६॥ तदिष्टस्य निषेध्यत्वमाक्षेपोक्तेर्निबन्धनम् । ... सौकर्येणान्यकृतये न निषेधकता पुनः॥ ४७ ॥ इत्याक्षेपपिण्डार्थ इति ॥४७॥ अथ प्रकारान्तरेणाक्षेपमेवाहयः स्याद् विधिरिवानिष्टवस्तुनः सोऽपि नापरः। विशेषायति वर्तते । अनिष्टस्यानभिमतस्य वस्तुनोऽर्थस्य विशेषप्रकाशनाय यो विधिरिव निषेधपर्यवसायित्वाद् विध्याभासो न विधिरेव । वस्तुनोऽनिष्टत्वव्याघातात् । सोऽपि नापर: किन्तु स एवाक्षेपः । यथा " गच्छ गच्छसि चेत् कान्त ! पन्थानः सन्तु ते शिवाः । ____ ममापि जन्म तत्रैव भूयाद् यत्र गतो भवान् ॥ ८३० ॥" अत्र प्रियप्रस्थानस्यानिष्टस्याप्यनिराकरणरूपेण निषेधपर्यवसायिना विधिना त्वद्विरहे सद्यः प्राणान् त्यक्ष्यामीति विशेष: प्रकाश्यते । " अनङ्गः पञ्चभिः पौष्पैर्विश्वं व्यजयतेषुभिः । इत्यसम्भाव्यमथवा विचित्रा वस्तुशक्तयः ।। ८३१ ॥" तथा-- " कुतः कुवलयं कर्णे करोषि कलभाषिणि ! १ । किर्मपाङ्गमपर्याप्तमस्मिन् कर्मणि मन्यसे ? ॥ ८३२ ॥" इत्यादावप्याक्षेपमिच्छन्त्येके । - अथ प्रतीयमानांशेन पूर्वानुयायिनी व्याजस्तुतिमाह१ प. ०तव० । २ प. किमपर्याप्तमपांगम । ३ प. च्छंत्येते । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy