SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः वस्तुकथननिषेधो यथा " ज्योत्स्ना मौक्तिकदाम चन्दनरसः शीतांशुकान्त द्रवः कर्पूरं कदली- मृणालवलयान्यम्भोजिनीपल्लवाः । अन्तर्मानसमास्त्वया प्रभवता तस्याः स्फुलिङ्गोत्करव्यापाराय भवन्ति हन्त ! किमनेनोक्तेन न ब्रूमहे ।। ८२७ ।। ” अत्रत्वद्वियोगे सर्व तस्याः स्फुलिङ्गायते इति वस्तुनः कथनम् । तस्य निषेधेन तवोपसङ्ग्रहीतुमुचितैवेयम्, नान्यथा जीवतीति विशेषो द्योत्यते ।. वक्ष्यमाणविषये तु कथनमेव निषिध्यते । तच्च क्वापि सामान्योक्तौ विशेष - निष्टत्वेन क्वचित् पुनरंशोक्तावंशान्तरगतत्वेनेत्यत्रापि द्वौ भेदौ । तत्राद्यो यथा" ए ! एहि किं पि कीड वि करण निक्किव ! भणामि अलमहवा । अवियोरियकज्जारंभयारिणी मरउ ने मणिस्सं ॥। ८२८ || " Acharya Shri Kailassagarsuri Gyanmandir अत्र किंपि भणामीति सामान्योक्ताबुत्तरस्य विशेष भणनीयस्य निषेधेन तस्यामीदृशीं मृत्युदशां प्राप्तायामपि न त्वमहङ्कारं त्यजसीति दूतीप्रकोप रूपो विशेषो गम्यते । द्वितीयो यथा " ज्योत्स्ना तमः पिकवचस्तुषारः क्षारो मृणालवलयानि कृतान्तदन्ताः । सर्व दुरन्तमिदमद्य शिरीषमृद्वी सा नूनमा: ! किमथवा हतजल्पितेन १ || ८२९ ॥ " - अत्राद्य शिरीषमृद्धी सा नूनमित्यं शोक्तावंशान्तरस्य म्रियत इति वक्ष्यमा - णस्य निषेधेन तस्यैव वक्तुमशक्यत्वादिति विशेषः ख्याप्यते । एवं चात्र निषेधस्य विधिर्न च विहितस्य निषेधः, किन्तु विशेषाय निषेधेन विधिराक्षेप इति पर्यव * ए ! एहि किमपि कस्या अपि कृते निष्कृप ! भणाम्यलमथवा । अविचारितकार्यारम्भकारिणी म्रियतां न भणिष्यामि ॥ १ अ. आरिअ० । २ व. ण । ३ प ०षेधे । ३७ २८९ For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy