SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८८ अलङ्कारमहोदधौ .: अत्र राहुबधूनां तथाविधरतोत्सवरूपेण कार्येण राहुशिरश्छेदस्तकारणभूतो गम्यते । विष्णुप्रभावगम्यत्वाच्च द्वयोरपि वर्णनीयत्वेन प्रस्तुतत्वम् । यथा वा" महेन्द्रमास्थाय महोक्षरूपं यः संयति प्राप्तपिनाकिलीलः । ___ चकार बाणैरसुराङ्गनानां गण्डस्थलीः प्रोषितपत्रलेखाः ॥ ८२५ ॥" : अत्र सुराङ्गनागण्डस्थलीनां प्रोषितपत्रलेखात्वरूपेण कार्येण तद्वल्लभवधः कारणरूपः प्रतीयते । ककुत्स्थविक्रमसूत्रितत्वाच्चोभयोरपि वर्ण्यत्वेन प्रस्तुतत्वमिति ॥ ४५ ॥ अथ प्रतीयमानतालङ्कृतत्वसाधात् पर्यायोक्तानन्तरमाक्षेपमाह उक्तस्य वक्ष्यमाणस्य वक्तुमिष्टस्य बध्यते । विशेषाय यो निषेध इवाक्षेपः स लक्षितः ॥ ४६ ॥ . .' उक्तस्य प्रतिपादितस्य, वक्ष्यमाणस्य प्रतिपिपादयिषितस्य, वक्तुमिष्टस्य विवक्षितस्य कस्याप्यर्थस्य यो निषेध इव निषेधाभासो न तु निषेध एव वक्तुमिष्टस्यैव हानिप्रसङ्गात । कथं सोऽपि बध्यते इत्याह-विशेषाय कश्चिद् विशेषमाविष्कतुमन्यथा गजस्नानतुल्यत्वं स्यात् । तस्य च विशेषस्य शन्दा. नुपात्तत्वात् गम्यत्वम् । स आक्षेप इत्यलङ्कारो लक्षितो विज्ञातः । अत्र चोक्तविषये आक्षेपे कचिद् वस्तु निषिध्यते, क्वचिद् वस्तुकथनमिति द्वौ भेदौ । तत्र वस्तुनिषेधो यथा *"वा(बा)लय ! नाहं दुई तीइ पिओ सि त्ति नह वावारो। ... सा मरइ तुज्झ अयसो एवं धम्मक्खरं मणिमो ॥ ८२६ ॥" - अत्रोक्तस्य दृतीत्वस्य वस्तुनो निषेधेन दृत्यः सर्वा अपि मिथ्यावादिन्योऽहं सत्यवादिनीति विशेषः प्रतीयते । * बालक ! (बालायाः) नाहं दूती तस्याः प्रियोऽसीति नास्माकं व्यापारः । ___ सा म्रियते तवायश एतद् धर्माक्षरं भणामः ।। १ अ. .जन्य.। २ अ. ०वधूः । ३ प. प्रतीत। ४ अ. मानत्व० । ५ अ.व. •ष्टत्वस्यैव । ६ प. ०माधातुमा० । ७ प. बालाय । ८ अ. नह्म । ९ अ. एयं, व. एवं । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy