________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः ।
२८७ अत्र भ्रमरस्यानासेवायां कर्णचापलस्य हेतुत्वं सम्भवि, रसनाविपर्ययादीनां त्वसम्भवीत्युमयरूपत्वम् । ननु कार्यात् कारणस्य गम्यतायामप्रस्तुतप्रशंसा चेदिष्यते तदा
"येन लम्बालकः साश्रु! कराघातारुणस्तनः। ___ अकारि भग्नवलयो गजासुरवधूजनः ॥ ८२२ ॥"
इत्यादौ लम्बालकत्वादेः कार्यात् कारणभूतस्य गजासुरवधस्य प्रतीतो यत् पर्यायोक्तमुच्यते, तस्य निर्विषयतयैव प्राप्नोति नैवमप्रस्तुतप्रशंसायां हि कार्यादप्रस्तुतात् कारणं प्रस्तुतं गम्यते । पर्यायोक्ते तु द्वयोरपि प्रस्तुतत्वम् । गजासुरवधवत् तद्वधूवृत्तान्तस्यापि वर्णनीयत्वादित्यस्त्येव द्वयोरपि विषयविभाग इति ।
केचित् पुनः" लावण्यसिन्धुरपरैव हि केयमत्र यत्रोत्पलानि शशिना सह सम्प्लवन्ते ।
उन्मजति द्विरदकुम्भतटीव यत्र यत्रापरे कदलिकाण्डमृणालदण्डाः ॥८२३॥" इत्यादावप्यप्रस्तुतप्रशंसां मन्यन्ते, तदसत् ; यत्रोत्पलानीत्यादौ भेदेऽभेदरूपयाऽतिशयोक्त्यालङ्कत्यात्मनो लावण्यसिन्धुरपरैव होत्यत्राभेदे भेदरूपाया अतिशयोक्तेयंतिरेकस्य वा विषयत्वात् ॥४४॥ अथ प्रस्तुतोभयार्थत्वेन पूर्ववैधाद पर्यायोक्तमाह
प्रस्तुतत्वे द्वयोः कार्यात् कारणं यत्र गम्यते । पर्यायेणोच्यमानत्वात् पर्यायोक्तं तदुच्यते ॥ ४५ ॥
द्वयोरुभयोरपि कार्य-कारणयोर्वर्णनीयत्वेन प्रस्तुतत्वे सति यत्रालङ्कारविशेषे कार्यात् कारणं गम्यते तत् पर्यायोक्तं पर्यायेण भङ्गयन्तरेण गम्यस्याप्यर्थस्यो. च्यमानत्वात् । अत्र हि कार्याभिधानरूपेण विच्छित्यन्तरेण गम्पोऽप्यर्थोऽभिधीयमान इव प्रतीयते । यथा" चक्राभिघातप्रसभाज्ञयैव चकार यो राहुवधूजनस्य ।
आलिङ्गनोदामविलासवन्ध्य रतोत्सवं चुम्बनमात्रशेषम् ।। ८२४ ॥" १ व. ०यितैव । २ अ. क्त्यालंकृतास्मनो, व. क्त्यालंकृता । ३ प. युग्मम् ।
For Private And Personal Use Only