SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः । २८१ अत्र तनुत्वादिविशेषणसाधारण्यात् लोलाक्ष्या लताध्यपहारप्रतीतिलतेकगामित्वाच्च विकासोन कारणं विकासश्च प्रकृते उपचरितो ज्ञेयः। कार्यसाम्येन यथा" विलिखति कुचावुच्चैर्गाढं करोति कंचग्रह लिखति ललिते वक्त्रे पत्रावलीमसमञ्जसम् । क्षितिप! खदिरैः श्रोणीबिम्बाद् विकर्षति चांशुकं मरुभुवि हठान्नश्यन्तीनां तवारिमृगीदृशाम् ॥ ७९८ ॥" अत्र कुचविलेखनादिकार्यसाम्येन हठकामुकन्यवहारप्रतीतिः। उभयसाम्येन यथा" निल्नान्यलकानि पाटितमुरः कृत्स्नोऽधरः खण्डितः कर्णे रुग् जनिता कृतं च नयने नीलाब्जकान्ते क्षतम् । यान्तीनामतिसम्भ्रमाकुलपदन्यासं मरौ नीरसैः । किं किं कण्टकिभिः कृतं न तरुमिस्त्ववैरिवामध्रुवाम् ? ॥ ७९९॥" अत्र नीरसैः कण्टकिभिरिति विशेषणसाम्यम् । निलनान्यलकानीत्यादि च कार्यसाम्यम् । व्यवहारसमारोपश्चात्र सर्वत्र जीवितम् । स च लौकिके वस्तुनि लौकिकस्य वस्तुनः, शास्त्रीये शास्त्रीयस्य, लौकिक शास्त्रीयस्य, शास्त्रीये वा लौकिकस्येति चतुर्धा। __ तत्राधो यथा"यामालिलिङ्ग मुखमाशु दिशां चुचुम्ब रुद्धाम्बरं शशिकलामलिखत् कराप्रैः ।। अन्तर्निमग्नचरपुष्पशरोऽतितापात् किं किं चकार तरुगो न यदीक्षणाग्निः।।८००॥" अत्रेक्षणाग्नौ कामुकव्यवहारसमारोपः । द्वितीयो यथा - - - १ व. कुच० । २ व. विलिः । ३ प. ०रश्रो० । ४ अ. . म्ये ह. । ५ प. लोला। ६ व. सर्वजी० । ७ अ. यामा० । ८ प. ०र: शि०, व. ०वरपु० । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy