________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८०
अलङ्कारमहोदधौ भयेषां विशेषणानां कार्याणां च साम्येन यदप्रस्तुतगम्यता यदप्रस्तुतं गम्यते । प्रस्तुतगम्यत्वे च प्रस्तुतप्रशंसा वक्ष्यते सा समासोक्तिरित्यलङ्कतिः सम्मता । तच्च प्रतीयमानमप्रस्तुतमत्र प्रस्तुतोपस्कारकत्वेन प्रतीयते, न तिरस्कारकत्वेन । उपस्कारकत्वाच्च तद्व्यवहारसमारोपः। तिरस्कारकत्वे तु धनेस्तद्रूपताप्रतीतो प्रतीयमानरूपकस्य वा विषयः स्यान्न समासोक्तेः । तत्र तेषु त्रिषु साम्येषु मध्ये भेदकतुल्यता विशेषणसाम्यं श्लिष्टतया औपम्यगर्भत्वेन साधारण्येन च भषे त्रिधा त्रिविधं भवति ।
तत्र श्लिष्टतया यथा" आगत्य सम्प्रति वियोगविसंस्थुलाङ्गी___ मम्भोजिनी क्वचिदपि क्षपितत्रियामः । ऐतां प्रसादयति पश्य शनैः प्रभाते
तन्वनि ! पादपतनेन सहस्ररश्मिः ॥ ७९५ ।।" अत्र श्लिष्टविशेषणमाहात्म्यादपरित्यक्तस्वस्वरूपयोरम्भोजिनी-सूर्ययो - यकव्यवहारप्रतीतिः। 'साविशेषणमाख्यातं वाक्यम्' इति शब्दशास्त्रोक्तन्यायेन पादपतनादीनामपि विशेषणत्वम् ।
- औपम्यगर्भत्वेन यथा" दन्तप्रभा-पुष्पंचिता पाणि-पल्लवशालिनी ।
केशपाशालिवृन्देन सुवेषा हरिणेक्षणा ।। ७९६ ॥" __ अत्र दन्तप्रभा पुष्पाणीवेत्युपमागर्भत्वेन कृते समासे पश्चाद् दन्तप्रभासदृशैः पुष्पैश्चितेति शाक पार्थिवादित्वान्मध्यमपदलोपिसमासान्तराश्रयणेन विशेषणसाम्यमहिम्ना लताव्यवहारप्रतीतिः । रूपकगर्भत्वेन विशेषणसाम्यमेकदेशविवर्तिरूपकस्यैव विषयो नास्याः ।
साधारण्येन यथा-- " तन्वी मनोरमा बाला लोलाक्षी पुष्पहासिनी ।
विकाश(स)मेति सुभग ! भवदर्शनमात्रतः ॥ ७९७ ॥" १ प. प्रियविप्रयो । २ प. स तां। ३ अ. पपा० । ४ अ. शोभिनी । ५ अ. म्यदे।
For Private And Personal Use Only