________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७८
अलङ्कारमहोदधौ "चाणं पुष्पितचूतपादपलता मौर्वी द्विरेफावलिः
पूर्णेन्दोरुदयोऽभियोगसमयः पुष्पाकरोऽग्रेसरः । अस्त्राण्युत्पलकेतकीसुमनसो 'वेध्यं मनः कामिनां
त्रैलोक्ये जयति स्मरस्य ललितोल्लेखी जिगीषाग्रहः ।। ७८८ ॥" कठोरशस्त्राद्युपकरणत्वेनापजिगीषूणां प्रसिद्धिस्तस्याश्चात्र विपर्यासः ।
सादृश्ये यथा-.. " त्वं समुद्रश्च दुर्वारी महासत्चौ दुरासदौ । इयता युवयोर्मेदः स जलात्मा पटुर्भवान् ॥ ७८९ ॥" आक्षिप्तोपमायां हीनत्यव्यतिरेको यथा" क्षीणः क्षीणोऽपि शशी भूयो भूयोऽभिवर्धते सत्यम् ।
विरम प्रसीद सुन्दरि ! यौवनमनिवर्ति यातं तु ।। ७९० ॥" अत्र चन्द्रापेक्षया यौवनस्य न्यूनत्वं गतस्य पुनावर्तनाभावात् ।। ३९ ।।
___ अथ विनोक्तिमाह-- विना किञ्चिद् यदन्यस्य सत्त्वासत्त्वविपर्ययः ।
विनोक्तिः सा किश्चिद् वस्त्वन्तरं विना यदन्यस्यापरस्य वस्त्वन्तरस्य सत्त्चासत्त्वविपर्ययो यः सत्त्वविपर्ययः शोभनत्वाभावः, असत्त्वविपर्ययोऽशोभनत्वाभावश्चेति द्विधा सा विनोक्तिरलङ्कतिः।
तत्राद्या यथा" विनयेन विना का श्रीः ? का निशा शशिना विना । ___ रहिता सत्कवित्वेन कीदृशी वाग्विदग्धता ? ॥ ७९१॥"
अत्र विनयाद्यभावप्रयुक्तः श्रीप्रभृतीनां शोभनत्वाभावः । इयं च विनाशब्दप्रयोगमन्तरेणापि क्वचित् तदर्थप्रसीतौ भवत्येव ।
यथा१ प. विद्धं । २ अ. ०सो जि० । ३ प. वर्तिवा० ।
For Private And Personal Use Only