SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अलङ्कार महोदधौ अत्र कीर्तिस्फुरणेन कार्येण खड्गधारानिपातावज्ञारूपं कारणं समर्थितम् । ___ क्वापि श्लेषाविद्धोऽप्येष दृश्यते । यथा" उल्लासयति लोकस्य प्रीति मलयमारुतः । ननु दाक्षिण्यसम्पन्नः सर्वस्यावहति श्रियम् ॥ ७८० ॥ " इति ॥३७॥ अथौपम्यभेदप्रस्तावाद् व्यतिरेकमाहविच्छित्तये यदन्यस्मादुपमेयस्य बध्यते । आधिक्यमथ हीनत्वं व्यतिरेकः स कीर्तितः ॥ ३८ ॥ विच्छित्तये शोभातिशयायोपमेयस्य प्रस्तुतवर्ण्यमानस्यान्यस्मादपमानाद. प्रस्तुतादाधिक्यं हीनत्वं वा यन्निबध्यते स तद्व्यतिरेककारित्वाद् व्यतिरेकः।।३८।। अथास्य विषयमाहगोचरश्चोपमा श्लेषोपमा श्लेषोऽथ रूपकम् । .प्रसिद्धेश्च विपर्यासः सादृश्यं चास्य कीर्तितः ॥ ३९ ॥ अस्य च व्यतिरेकस्योपमा श्लेषसंमिश्रोषमा केवल श्लेषो रूपकं प्रसिद्धविपर्यासो व्यत्ययः । सादृश्यं च सदशगुणत्वं च गोचरो विषयः कीर्तितः कथितः । तत्र वाच्योपमायां व्यतिरेको यथा" असिमात्रसहायस्य प्रभूतारिपराभवे । अन्यतुच्छजनस्येव न स्मयोऽस्य महाधृतेः ॥ ७८१ ॥" आक्षिप्तोपमायां यथा" इयं सुनयना दासीकृततामरसश्रिया । __ आननेनाकलङ्केन जयन्ती(ती)न्दुं कलङ्कितम् ॥ ७८२ ॥" श्लेषोपमायां यथा : १ प ०रस्य । २ अ. त्वं. गो० । ३ व. भवात् । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy