SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७५ अर्थालक्कारवणनो नामाष्टमस्तरङ्गः । " सिध्यन्ति कर्मसु महत्स्वपि यनियोज्याः सम्भावनागुणमवेहि तमीश्वराणाम् । किं वाऽभविष्यदरुणस्तमसा वधाय तं चेत् सहस्रकिरणो धुरि नाकरिष्यत् ।। ७७५ ॥" अत्र किं वाऽभविष्यदपि तु नाभविष्यदिति वैधय॑विशेषः । सामान्येन साधर्म्यवता यथा" सरसिजमनुविद्धं शैवलेनापि रम्यं मलिनमपि हिमांशोर्लक्ष्म लक्ष्मी तनोति । इयमधिकमनोज्ञा वल्कलेनापि तन्वी किमिव हि मधुराणां मण्डनं नाकृतीनाम् ? ॥७७६॥" वैधर्मावता यथा" उपप्लुतं पातुमदो मदोद्धतै स्वमेव विश्वम्भर ! विश्वमीशिषे । ऋते स्वः क्षालयितुं क्षमेत का क्षपातमस्काण्डमलीमसं नमः ॥७७७।" अत्र कः क्षमेत ? नै कोऽपीनि वैधर्म्यम् । क्वचित् कार्य कारणेन, कारणं च कार्येण समर्थ्यत इत्यपि दृश्यते । । तत्रायो भेदो यथा" उत्तिष्ठमानस्तु परो नोपेक्ष्यः पथ्यमिच्छता । समौ हि शिष्टैराम्नातौ वर्णितावामयः स च ।। ७७८ ।।" अत्रानुपेक्षा कार्यभूता व्याधि-वैरिणोस्तुल्यत्वाभिधानेन कारणेन समर्थिता । द्वितीयो यथा" सङ्ग्रामसीम्नि सुभटास्तरवारिधारामिन्दीवरस्रजमिवाजगणन् पतन्तीम् । उद्गर्वपर्वहरिणाङ्ककरावदातमूर्तिः स्फुरत्यपरथा विपुला न कीर्तिः ॥७७९॥" . अ. दिति वै० । २ प. समर्थः । ३ व. किंतु न । ४ अ. न पे० | ५ अ. वत्स्यता। For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy