________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७३.
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः । प्रतिवस्तु प्रतिवाक्यमुपमासामान्यं यस्यामिति कृत्वा सामान्यस्य सन्निर्देश इबादीनां च प्रयोगे उपमा । तेषामप्रयोगे पुनर्दीपक-तुल्ययोगिते । असकेत सामान्गनिर्देशे तु बिम्ब-प्रतिबिम्बभौवे दृष्टान्तः । शुद्धसामान्यद्वयादिनिवेशे पुनरियमेव । यथा--
'चकोर्य एव चतुरा निर्दिष्टं विनाऽवन्तीनं निपुणा ।' इति कृते वैधणाप्यसो भवति ।
मालारूपाऽप्येषा यथा" यदि दहत्यनलोऽत्र किमद्भुतं यदि च गौरवमद्रिषु किं ततः ? ।
लवणमम्बु सदैव महोदधेः प्रकृतिरेव सतामविषादिता ॥ ७६८ ॥" अत्र प्रकृतिरेवेत्यस्य किमद्भुतं, किं ततः, सदैवेति विपर्यायाः ॥ ३५ ॥
अर्थतस्याः प्रकृतिभूतं दृष्टान्तमाह-- दृष्टान्तोऽसौ विशेषाङ्के यद्वा सामान्यशालिनी । वाक्ये धारयतो यस्मिन्नन्योन्यप्रतिबिम्बताम् ॥ ३६ ॥
असौ दृष्टान्ताख्योऽलङ्कारः । यस्मिन्नुपमेयोपमानरूपे विशेषाङ्के विशेषो व्यक्तिरूपः सोऽङ्कश्चिहूं ययोर्विशेषवती इत्यर्थः । यदि वा सामान्यमविशेषरूपं तच्छालिनी द्वे अपि वाक्ये मिथो बिम्ब-प्रतिविम्बभावं धारयतः । तत्र विशेषाङ्के यथा
" को नाम केशवा के वा पाण्डवाः पुरतो मम । को नाम चन्द्रमाः के वा तारकास्तरणे: पुरः ॥ ७६९ ॥"
यथा वा-- " त्वयि दृष्ट एव तस्या निर्वाति मनो मनोभवज्वलितम् ।
आलोके हि हिमांशोषिकसति कुमुदं कुमुवत्याः ॥ ७७० ॥" १ अ. सान्यं । २ प. ०कृनिः । ३ प. ०वेऽपि, व. ०मेतद् यथा । ४ अ, बिंबितां । ५ प. तरणे ।
For Private And Personal Use Only