________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७२
अलङ्कारमहोदधौ अत्रान्यधर्मिणो धर्मस्य विप्रकृष्टेनापरधर्मिणा खात्मन्याकर्षणयोग्यतामा. वादसम्भवन् पदसम्बन्धः कामपालललाटपट्टश्रीसदृशीं श्रियमाचरेत्यौ. पम्याय जायते ।
उत्प्रेक्षारूपा यथा-- " अयं मन्दद्युतिर्भास्वानस्तं प्रति यियासति । उदयः पतनायेति श्रीमतो बोधयन् नरान् ॥ ७६४ ॥"
यथा वा-- " चूडामणिपदं धत्ते यो देवं रविमागतम् ।
सता कार्याऽऽतिथेयीति बोधयन् गृहमेधिनः ॥ ७६५॥" अत्रोभयत्रापि भास्वतः प्राक्शैलस्य च गृहमेधिनो बोधनासमर्थत्वादसम्भवन् पदसम्बन्धो बोधयन्निवेत्युत्प्रेक्षायै जायते ।
मालारूपांऽप्येषा यथा-- "दोया तितीर्षति तरङ्गवतीभुजङ्गमादातुमिच्छति करे हरिणाङ्कबिम्बम् । मेरुं लिलङ्घयिषति ध्रुवमेष देव ! यस्ते गुणान् गदितुमुद्यममादधाति ।।७६६॥" अत्रापि समुद्रादीनां दोस्तरणादिसदृशं त्वद्गुणोत्कीर्तनमित्यौपम्ययोगः ॥३४॥
अथ पदार्थगतानाभिधाय वाक्यार्थगतानलङ्कारानमिधित्सुरादौ प्रतिवस्तूपमामाह--
यत्रैकमन्यपर्यायं सामान्यं वाक्ययोर्द्वयोः । पृथक् पृथक् प्रयुज्येत प्रतिवस्तूपमा तु सा ॥ ३५॥
यत्र यस्यामेकमेकार्थमेव सामान्य द्वयोर्वाक्ययोरन्यपर्यायं पौनरुक्त्यदोषात पर्यायान्तरेण पृथक् पृथक् प्रयुज्येत निवेश्येत सा पुनः प्रतिवस्तूपमा ।
१ अ. • कर्षयो । २ ५० लाट श्री० । ३ प. गमं । ४ प. सतां । ५ अ. च बो० प. चायो । ६ अ, ०रूपोऽप्येष । ७ अ.०ताममि० ।
For Private And Personal Use Only