SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७० अलङ्कारमहोदधौ आदौ मध्येऽवसाने वा सकृत्प्रयुक्तो धर्मः क्रियादिरूपः प्रस्तुताप्रस्तुतान् परस्परम्पमानोपमेयभृतान् पदार्थान् बहूननेकरूपानेकस्थानस्थो दीप इव गृहप्रदेशान् यद् दीपयति द्योतयति । यदि वा भूयसी बह्वीः क्रिया एकं कारक दीपयति तद् दीपकम् । तुशब्दः पूर्वव्यतिरेके । तत्रादिदीपकं यथा*" रेहइ मिहरेण नहं रसेण कव्वं सरेण जुब्वणयं । अमएण धरणीधवलो तुमए नरनाह ! भुअणमिणं ।। ७५६ । " मध्यदीपकं यथाx" कइ-केसरी पयाणं मुत्तियरयणाण आइवअडिओ। बाणट्ठाणं जाणइ कुसुमाण य जुण्णमालारो ॥ ७५७ ॥" अन्तदीपकं यथा-- +" किवणाण घणं नागाण फणमणी केसराई सीहाणं । कुलबालियोण य थणा कत्तो छिप्पन्ति अमुआणं ? ॥ ७५८ ॥" भूयसीनां क्रियाणामेकं कारकं दीपकं यथा--- " स्विद्यति कूणति वेल्लति विचलति निमिषति विलोकयति तिर्यम् । अन्तनन्दति चुम्बितुमिच्छति नवपरिणया वधूः शयने ।। ७५९ ॥" केचित् पुनः पदार्थानां चेतनचमत्कारिणमव्यक्तं कश्चिद् धर्म दीपयद् वस्तुमात्रमेव दीपकं मन्यन्ते । यथा * राजते मिहिरेण नभो रसेन काव्यं स्मरेण यौवनकम् । अमृतेन धरणीधवल:(चन्द्रः) त्वया नरनाथ ! भुवनमिदम् ॥ - कवि-केसरी पदानां मौक्तिकरत्नानामादिवैकटिकः । बाणस्थानं जानाति कुसुमानां च जीर्णमालाकारः ॥ + कृपणानां धनं नागानां फणामणिः केसराः सिंहानाम् । कुलबालिकानां च स्तनाः कुतः स्पृश्यन्तेऽमृतानाम् ? ।। १ अ. ०व्वणं । २ अ. प. धणीध० । ३ अ. मुक्तिअ० । ४ प. हाण। ५ अ. लिआ० । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy