________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः ।
२६९ अत्रोचितत्वं गुणः।
अप्रस्तुतानां यथा" स्वदङ्गमार्दवं द्रष्टुः कस्य चित्ते न भासते ।। ___ मालती-शशभृल्लेखा-कदलीनां कठोरता ।। ७५२ ॥" अत्र कठोरत्वं गुणः ।
प्रस्तुतानां तुल्यक्रियायोगो यथा-- " सञ्चारपूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय गन्तुम् ।
प्रचक्रमे पल्लवरागताम्रा प्रभा पतङ्गस्य मुनेश्च धेनुः ॥ ७५३ । " अत्र सन्ध्याया धेनोश्च द्वयोरपि वर्णनीयत्वेन प्रस्तुतयोः प्रचक्रमे इति तुल्यक्रियायोगः ।
या वा" पाण्डु क्षामं वदनं हृदयं सरसं तवालसं च वपुः ।
आवेदयति नितान्तं क्षेत्रियरोगं सखि ! हृदन्तः ॥ ७५४ ।।" अत्र क्षेत्रियो राजयक्ष्मा पारदारिकश्च, आवेदयतीति च तुल्यक्रियायोगः ।
___ अप्रस्तुतानां योगो यथा-- " तस्मिन्नुदग्ररिपुवर्गजये निसर्गवैयग्यवानजनि विग्रहराजदेवः । यद्विग्रहं जगदसम्भविनं विभाव्य वैरिव्रजोऽपि मदनोऽपि मदं मुमोच । ७५५॥" अत्र वैरिव्रजस्य मदनस्य चाप्रस्तुतत्वम् । मुमोचेति तुल्यक्रियायोगः ।।३२।। अथ प्रकृताप्रकृतद्योतकत्वात् पूर्वस्यापि विलक्षणं दीपकमाह-- धर्मों यद् दीपयत्येकः प्रस्तुताप्रस्तुतान् बहून् । क्रिया वा भूयसीरेकं कारकं तत् तु दीपकम् ॥ ३३ ।।
१ व. ०वे दृष्टे । २ प. ०या पां। ३ अ. प. नां य० । ४ प. स्यावि० ।
For Private And Personal Use Only