SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६७ अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः । अथास्या भेदान्तराण्याहउपमोपक्रमे क्वापि स्वात्मपर्यवसानिका।। उत्प्रेक्षेत्यनुवर्तते । उपमा उपक्रमे आदौ यस्याः स्वात्मनि उत्प्रेक्षात्वे पर्यवसानं यस्याः सा तथा । इयं हि क्वचित् पदार्थान्वयवेलायां सादृश्याभिधानादुपमारूपतामनुभूय पर्यन्ते वाक्यार्थतात्पर्यसामर्थ्यादुत्प्रेक्षायां पर्यवस्यतीति । यथा" कस्तूरीतिलकन्ति भालफलके देव्या मुखाम्भोरुहे रोलम्बन्ति तमालबालमुकुलोत्तंसन्ति मौलिं प्रति । याः कर्णे विकचोत्पलन्ति कुचयोरके च कालागुरु स्थासन्ति प्रथयन्तु तास्तव शिवं श्रीकण्ठकण्ठत्विषः ।। ७४६ ॥" अत्र यद्यपि कर्तुः क्विचित्युपमानात् विपि प्रारम्भे उपमाप्रतीतिस्तथापि विषयौचित्येन कण्ठत्विषां तिलकादिरूपेण सम्भावनोत्थाने तस्या उत्प्रेक्षायां पर्यवसानम् ॥ क्वापि सापह्नवा सैषा छलादीनां प्रयोगतः ॥ ३१ ॥ सैषोत्प्रेक्षा क्वापि च्छलादीनां छल-च्छमप्रभृतिशब्दानां प्रयोगात् सापह्नवा। यथा " गतासु तीरं तिमिघट्टनेन ससम्भ्रमं पौरविलासिनीषु । यत्रोच्छलत्फेनततिच्छलेन मुक्ताट्टहासेव विभाति सिमा ॥७४७॥" तथाऽपर इव पाकशासन इत्यादावपरशब्दाप्रयोगे उपमैव । इवशब्दाप्रयोगेऽतिशयोक्तिरूभयाप्रयोगे तु रूपकं सर्वप्रयोगे पुनरुत्प्रेक्षवेत्यस्याः प्रकारवैचित्र्यम् । अस्याश्चैवशब्दवत् मन्ये शङ्के ध्रुवमित्यादयोऽपि प्रतिपादकास्तदन्यत्र पुनर्वितर्कमात्राभिधायिन एव । यथा १ प. ०हुः । २ प. दीवे । ३ व, यमघ० । ४ अ. भयोः प्र० । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy