SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २६६ अलङ्कार महोदधौ अत्र व्यलीकनिःश्वासोत्सर्जनं वातस्य स्वरूपमेव । हेतूत्प्रेक्षा यथा " सैषा स्थली यत्र विचिन्वता त्वां संस्तं मया नूपुरमेकमुर्व्यम् । अदृश्यत त्वच्चरणारविन्दविश्लेषदुःखादिव बद्धमौनम् ॥ ७४५ ।। " अत्र बद्धमौनत्वस्य विश्लेषदुःखहेतुः । Acharya Shri Kailassagarsuri Gyanmandir अशीतिर्निकषे पुनः ॥ २८ ॥ निकषे पर्यन्ते पुनरस्या उत्प्रेक्षाया अशीतिरेव भेदाः ||२८|| कुत इत्याह द्रव्ये हेतु - फलोत्प्रेक्षा न यत् सम्भविनी क्वचित् । यद् यस्मात् कारणाद् द्रव्यविषये हेतूत्प्रेक्षा फलोत्प्रेक्षा च कुत्रापि न सम्भवति । केवलं स्वरूपोत्प्रेक्षैव तस्मिन्निति तदीयाः षोडश भेदाः पात्यन्त इति । वाच्यैवेत्थं स्थिता सेयं द्वात्रिंशर्डीऽपरा पुनः ॥ २९ ॥ सेयमुत्प्रेक्षा वाच्यैवैवमशीतिभेदत्वेन स्थिता । अपरा पुनः प्रतीयमानोत्प्रेक्षा द्वात्रिंशद्विधैव ।। २९ ।। कथमित्याह निमित्तस्यानुपादानं न भवत्येव तत्र यत् । स्वरूपात्प्रेक्षणं नापि तत्सङ्ख्या स्याद् यथोदिता ॥ ३० ॥ यद् यस्मात् कारणात् तत्र तस्यां प्रतीयमानोत्प्रेक्षायां निमित्तस्य हेतोरनुपादानं न भवत्येव । इवाद्यनुपादाने निमित्तस्थाकीर्तने चोत्प्रेक्षणस्य निष्प्रमाणत्वात् तथा स्वरूपोत्प्रेक्षणमप्यस्यां न दृश्यते । ततोऽस्याः सख्या यथोदिताद्वात्रिंशत्प्रमाणैव ॥ ३० ॥ १ अ ०वित । २ प श्रस्तं । ३ प ०मेव० ४ प ०श पं० । ५ अ. ग्वाद्यु० । ६ अ. ०णकस्यातू । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy