SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः । २६५ सोत्प्रेक्षाऽष्टविधाsपि गुण - क्रियाभ्यां बीजाभ्यां गुणेन क्रियया व निमित्तभूतेन द्विधा भिन्ना सती षोडशात्मिका षोडशस्वरूपा भवति । तयोश्च गुण-क्रिययोः प्रयोगाप्रयोगाभ्यां क्वचित् प्रयोगात् क्वचिदप्रयोगाच्च साऽपि षोडशात्मिका द्विधा भिन्ना सती द्वात्रिंशद्विधा स्मृता । तत्र गुणस्य निमित्तत्वं प्रयोगाद् यथा - 'नवबिसलता कोटिकुटिल:' इत्युदाहृते कुटिलत्वस्य । अप्रयोगाद् यथा' तां भवानीं भ्रमाद् ' इत्युदाहृते दैर्ध्य श्यामत्वादिगुणानाम् । क्रियाया निमित्तत्वं प्रयोगाद् यथा “ कपोलफलकावस्याः कष्टं भूत्वा तथाविधौ । अपश्यन्ताविवान्योन्यमीदृक्षां क्षामतां गतौ ॥ ७४२ ॥ " अत्र क्षामतागमनक्रियायाः । अप्रयोगाद् यथा - ' वियति विसर्पति' इत्यादावुदाहृते विविधपरिस्फुरणक्रियायाः । एवं शेषभेदेष्वप्यभ्यम् ॥ २७ ॥ फलस्वरूप हेतुनामुत्प्रेक्षाकर्मनिर्मितौ । भेदाः षण्णवतिस्तस्याः Acharya Shri Kailassagarsuri Gyanmandir फलस्य स्वरूपस्य हेतोश्च प्रत्येकमुत्प्रेक्षणात् पूर्वेषां द्वात्रिंशतो भेदानां त्रिगुणत्वेन तस्या उत्प्रेक्षायाः षण्णवतिर्भेदाः । तत्र फलोत्प्रेक्षा यथा - "बालस्य यद् भीतिपलायितस्य मालत्वचं कण्टकिनो वनान्ताः । अद्यापि किं चानुभविष्यतीति व्याँपाटयन् द्रष्टुमिवाक्षराणि ॥ ७४३ || " अत्र विपाटनॅस्याक्षरदर्शनं फलम् । स्वरूपोत्प्रेक्षा यथा " कुबेरगुप्तां दिशमुष्णरश्मौ गन्तुं प्रवृत्ते समयं विलङ्घ्य । दिग् दक्षिणा गन्धवहं मुखेन व्यलीकनिःश्वासमिवोत्ससर्ज || ७४४ || " १ प ०त्मका । २ प इत्याद्युदा० । ३ प. व्यपा० । ४ प. ०टस्या० । ३४ For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy