SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६४ अलङ्कारमहोदधौ द्रव्योत्प्रेक्षा यथा" देव ! त्वदश्वीयखुरक्षतक्षमापरागपूरे परितः प्रसर्पति । अशाखिशैलेन्द्रमिवावनीतलं विभात्यनादित्यमिवाम्बरं पुनः ॥७३९॥" अत्रानादित्यमिवेत्यत्रादित्यस्यैकत्वात् द्रव्यत्त्वम् , तस्याभावाभिमानः । " वियति विसर्पतीव कुमुदेषु बहुभवतीव योषितां प्रतिफलतीव जरठशरकाण्डपाण्डुषु गण्डमित्तिषु । अम्भसि विकसतीव हसतीव सुधाधवलेषु धामसु बजपटपल्लवेषु ललतीव समीरचलेषु चन्द्रिका ।। ७४०॥" अत्र विसर्पतीत्यादिक्रियाणाममाचे प्रस्तुते विविधं परिस्फुरणं निमित्तमाश्रित्य नानाप्रकारं भावोत्प्रेक्षणम् । यतोऽस्यामुत्प्रेक्षायां यथा जात्यादिषु प्रस्तुतेषु जात्यादीनां क्वचिद् भावोत्प्रेक्षणं क्वचिदभावोत्प्रेक्षणं च प्रोक्तम् । तथा क्वचित् तेषामभावे प्रस्तुते कुतश्चिनिमित्त्वशाद् भावोत्प्रेक्षणमित्यपि द्रष्टव्यम् । अप्रस्तुतस्य रूपेण प्रस्तुतं माध्यत इति लक्षणाव्यभिचारात् । यदि वा चन्द्रिका. रूपे द्रव्य एव विविधपरिस्फुरणानिमित्ताश्रयणाद् विसर्पतीवेत्यादिक्रियोत्प्रेक्षा । " लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नमः। असत्पुरुषसेवेव दृष्टिनिष्फलतां गता ॥ ७४१ ॥" इत्यत्रापि पूर्वार्द्ध व्यापनादिकमधःपात-श्यामत्वादिकं च निमित्तमाश्रित्य लिम्पति वर्षति क्रिययोरभावे भावः सम्भावितः । तमो-नभसोर्वा क्रियोत्प्रेक्षणमुत्तरार्द्ध पुनरुपमैव ।। २६ ॥ गुण-क्रियाभ्यां प्रत्येकं बीजाभ्यां षोडशात्मिका । तत्प्रयोगाप्रयोगाभ्यां सा द्वात्रिंशद्विधा स्मृता ॥ २७ ॥ १ अ. सरसका० । २ अ. वले० । ३ अ. ०णं च प्रो. । ४ अ. संमा० । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy