SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः । २६३ अरिकरिशिरःसिन्दूरेण प्रभामरुणां वहन् असिरपि रणे यस्य क्रोधाभिताम्र इवाबभौ ॥ ७३३ ॥" अत्र सिन्दारुणत्वं कोषामिताम्रत्वेनोत्प्रेक्षितम् । द्रव्योत्प्रेक्षा यथा" दर्पणे हरदेहस्था पश्यति प्रतिमामुमा । ____ अन्यार्धाभ्यामिवोत्पन्नमर्धनारीश्वरान्तरम् ॥ ७३४ ॥" अवार्धनारीश्वरत्वस्यैकत्वाद् द्रव्यत्वम् । अभावे जात्युत्प्रेक्षा यथा" समग्रसङ्कल्पफलेऽनुजीविनां कृतावतारे त्वयि मेदिनीतले । राजनिदानीं सदनं दिवौकसामकल्पशाखीन्द्रमिव प्रतीयते ।।७३५॥" अत्र कम्पद्रुमशब्दो जातिशब्दः, तस्याभावोत्प्रेक्षा । क्रियोत्प्रेक्षा यथा-- " स धूर्जटेजूंटतटीशयालुतां दधन सुधांशुर्जयतात् कुशाकृतिः। फूत्कारघोरादुरगाधिराजतः कदापि सौस्थित्यमवाप्नुवन्निन ॥७३६॥" अत्रापि क्रियाया अभावाभ्यूहनम्। गुणोत्प्रेक्षा यथा" देव ! त्वद्यशसि स्वैरं श्वेतयत्यखिलं जगत् । सत्याः शून्या इवाभूवन् नील-पीतादयो गुणाः ।। ७३७ ।। " यथा वा" तस्मिन्नम्युदिते विश्वस्तोतव्यभुजसौरभे । भूपालमण्डलं सर्वमविक्रमभिवाभवत् ॥ ७३८ ॥" अनयोनीलादिगुणानां विक्रमगुणस्य चाभाववितर्कः । १ प. ०रस्य० । २ व. ०वात उ० । ३ प. सत्ताशू० । ४ प. ०द्यते । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy