SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः । २६१ तद्भेदानाहसा च वाच्या प्रयुज्यन्ते शब्दा यस्यामिवादयः । सैव प्रतीयमाना स्याद् यत्र ते न प्रयोगिणः ॥२५॥ सा चोत्प्रेक्षा वाच्या यस्यामिवादय इव मन्ये शङ्के ध्रुवं नियतमित्यादयस्तवाचकाः शब्दाः प्रयुज्यन्ते । उपमाया इवोत्प्रेक्षाया अपीवादिशब्दवाच्यत्वात् । यथा" यः समुन्मीलयन न्यायमन्यायं च निमीलयन् । धर्मः साक्षादिव क्षात्रो महीतलमवातरत् ॥ ७२६ ॥" अत्र समुन्मीलन-निमीलनक्रिये हेतुभूते इवशन्दप्रयोगाच्च वाच्योत्प्रेक्षा । यथा च" तस्याः प्रविष्टा नतनामिरन्ध्र रराज तन्वी नवरोमराजिः । ___ नीवीमतिक्रम्ध सितेतरस्य तन्मेखलामध्यमणेरिवार्चिः ।। ७२७ ॥" अत्र नीलगुणः प्रतीयमानो निमित्तं वाच्यत्वं तु तथैव । सैवोत्प्रेक्षा प्रती. यमाना भवेत् , यत्र यस्यां ते इवादयः शब्दा न प्रयोगिणो न प्रयुज्यन्ते । यथा- " चन्दनासक्तभुजगनिःश्वासाँनिलमूञ्छितः। • मुर्छयत्येष पथिकान् मधौ मलयमारुतः ॥ ७२८ ॥" अत्र निःश्वासानिलमूर्छनक्रियोत्प्रेक्षायाः पथिकमूर्छन क्रियानिमित्तम् । यथा वा" त्वं रक्षसा भीरु ! यतोऽपनीता तं मार्गमेताः कृपया लता में । अदर्शयन् वक्तुमशक्नुवत्यः शाखाभिरावर्जितपल्लवाभिः ॥ ७२९ ॥" अत्र दर्शनक्रिपत्र निमितम् । उभयत्रापि निश्वासानिलमूञ्छित इत्यत्र कृपयेत्यत्र चेवशन्दप्रयोगाभावादुत्प्रेक्षायाः प्रतीयमानत्वम् ॥ २५ ॥ १ प. प्रति० । २ व. •स्यामिवा० । ३ प. नलः । ४ अ. ०या त्वं । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy