SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६० अलकारमहोदधौ अथ परिणाममाहपरिणामः स विषयो यत्र धत्तेऽन्यरूपताम् ॥ २३ ॥ यत्र यस्मिन् विषयोऽन्यरूपता विषयिरूपतां धत्ते बिभर्ति विषयिणस्तथास्वेनोपयोगाद् विषयस्तद्रूपतया परिणमतीत्यर्थः स परिणामः । स च सामानाधिकरण्य-वैयधिकरण्याभ्यां द्विविधः । तत्रायो यथा" तीत्वा भूतेशमौलिस्रजममरधुनीमात्मनाऽसौ तृतीय स्तस्मै सौमित्रिमैत्रीमयमुस्कृतवानान्तरं नाविकाय । व्यामग्राह्यस्तनीभिः शबरयुवतिभिः कौतुकोदश्चदक्षं ... कृच्छ्रादवीयमानः क्षणमचलमथो चित्रकूटं प्रतस्थे ॥ ७२४ ॥" अत्र सौमित्रिमैत्री विषयभूता सामानाधिकरण्येनान्तररूपतया परिणता । द्वितीया यथा" अथ पक्षिमतामुपेयिवद्भिः सरसर्वक्त्रपयाश्रितर्वचोमिः । क्षितिभर्तुरुपायनं चकार प्रथमं तत्परतस्तुरङ्गमाद्यैः ।। ७२५॥" अत्र व्यधिकरणानि वचांस्युपायनरूपतया परिणतानि ॥ २३ ॥ अथोत्प्रेक्षामाहअप्रस्तुतस्य रूपेण हेतुभूतैः क्रिया-गुणः । सम्भाव्यते प्रस्तुतं यत् तामुत्प्रेक्षां प्रचक्षते ॥२४॥ ... अप्रस्तुतस्याप्राकरणिकस्य वस्तुनो रूपेण प्रस्तुतं प्राकरणिकं वयं वस्तु यत् सम्भाव्यते तत्वाध्य वसीयते । किं निनिमित्तमेवेत्याह-हेतुभूतैनिमित्तभूः तैः क्वचित् क्रियाभिः काचिद् गुणैश्च । बहुवचनमत्रोत्प्रेक्षाभूयस्त्वापेक्षया या. वता एकेनाप्युत्प्रेक्षा भवत्येव । तामुत्प्रेक्षानामालङ्कति प्रचक्षते कथयन्ति । सम्मावनमध्यवसाय ऊहो वितर्क उत्प्रेक्षा इत्येकार्थाः ॥ २४ ॥ १ प. व. ०यित्वं । २ अ. स सामान्यवैः । ३ अ. प. मजरधुना० । ४ अ. समा० । ५ अ. मनमु०। ६ अ. प्रस्थित । ७ अ, त्वेनाध्य० । ८ व. ०क्षाम । ९ अ...कोषः । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy