SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः । २५९ अत्र न रोमावलिः, किन्तु धूमशिखेयमिति प्रतीतिः । अत्रोभयत्राप्यारो पपूर्वोऽपहन इत्यादिका भङ्गिः सम्भवन्त्यपि वैचित्र्याभावानोदाहृता । कचित् पुनर्नब्-च्छलादीन् विनैव प्रकारान्तरेणाप्यपहवारोपो दृश्यते । यथा" मौलौ धारय पुण्डरीकममितं तन्वात्मनो विक्रम चक्राक्षं वह पादयुग्ममवनि दोष्णा समभ्युद्धर । लक्ष्मी भूनिकटे निवेशय भव ज्यायान् दिवौकापते विश्वान्तःकरणकचौर ! तदपि ज्ञातो हरिः खल्वसि ॥ ७२१ ॥॥ अत्र न त्वं राजमात्रम्, किन्तु हरिरेवासीति नृपस्य हरित्वारोपः । सादृश्यरहिताऽपि द्विविधा वाच्यापह्वोतव्या प्रतीयमानापसोतव्या चें। तत्राद्या यथा" आनन्दाश्रुप्रवृत्तं मे कथं दृष्दैव कन्यकाम् १ । अक्षि मे पुष्परजसा वातोद्ध्तेन दूषितम् ॥ ७२२ ॥" अत्र पूर्वार्धवाच्यमुत्तरार्द्धवाच्येनापयते । ____ द्वितीया यथा*" उरपेल्लियवरकारेल्लयाई उच्चेसि दइयेवच्छलिए !। कटैयविलिहिअपीणुग्णयत्थणी हम्मए ताहे ॥ ७२३ ॥" अत्र वाच्यार्थेन प्रतीयमानमुपपतिनखक्षतमपह्वयते । इयं च मतान्तरामिप्रायेण, स्वमते तु व्याजोक्तिरेवेयम् । * उरःपीडितवरकारल्ल कान्युच्चयसि दयितवत्सलिके ! । कण्टकविलिखितपीनोन्नतस्तनी हन्यसे तदा ॥ १५, ०लिवपुः । २ अ. प.० पौ ०श्ये । ३ प. च यथा। ४ अ. ०ल्लिअवयकारेलू । vivvvvvvvvvi wwwvvvvvvv ५ . प. अव० । ६ अ. कंटअ० । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy