________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलङ्कारमहोदधौ ही भेदौ । च्छल-उछयादिशब्दैवपुऍत्यादिशब्दैश्च विषयापहवे द्वौ मेदाविति पतुर्मेंदा प्रथमा । तत्रायो भेदो यथा" शैलालङ्कृतमेतदाश्रमपदं तन्व्या न वक्षस्थली
देवः सोऽत्र जगजिगीषुरिषुमिस्तीव्र तपस्तप्यते । नाभीपन्यलधौतवल्कलशिखानिश्च्योतदम्मश्छटालेखैवेयमपेक्ष्यतेऽस्य सुभग ! श्यामा न रोमावली ।। ७१७॥"
द्वितीयो यथा" अवाप्तः प्रागल्भ्यं परिणतरुचः शैलतनये
कलको नैवायं विलसति शशाङ्कस्य वपुषि । अमुष्येयं मन्ये विगलदमृतस्यन्दशिशिरे रतश्रान्ता शेते रजनि-रमणी गाढमुरसि ॥ ७१८ ॥"
तृतीयो यथा"बत सखि ! कियदेतत् पश्य वैरं स्मरस्य
प्रियविरहकशेऽस्मिन् रागिलोके तथाहि । उपवनसहकारोझासि गच्छलेन
प्रतिविशिखमनेनोट्टङ्कितं कालकूटम् ॥ ७१९ ॥" अत्रहिन सभृङ्गानि सहकाराण्यपि तु सह कालकूटा: शरा इति प्रनीतिः।
चतुर्थो यथा" अमुष्मिन् लावण्यामृतसरसि नूनं मृगदृशः
स्मरः शर्वप्लुष्टः पृथुजघनभागे निपतितः । यदनाङ्गाराणां प्रशमपिशुना नामि-कुहरे
शिखा धूमस्येयं परिणमति रोमावलिवपुः ॥ ७२० ॥" १ प. निश्चो० । १ व. स्तटा । । ५. व. ०क्षते । ४ व. पद । ५ प. शृंग० । ६ व. प्रथमपिशुने ।
For Private And Personal Use Only