SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः । २५७ अखण्डं पुण्यानां फलमपि च तद्रूपमनघं न जाने भोक्तारं कमिव समुपस्थास्यति भुवि १ ॥ ७१३ ॥" अत्र पुष्पादीनामनाघ्रातत्त्वादिभिरितराघातपुष्पादिव्यतिरेकेण स्थितत्वाद् व्यतिरेकाङ्कम् । रर्शनारूपकं यथा-- "किसलयकरैलतानां करकमलैमगदृशां जगञ्जयति । नलिनीनां कमल-मुखैमुखेन्दुभिर्योषितां मदनः ॥ ७१४ ॥" अत्र किसलय-करैः कर-कमलैरित्यादिपदेषु करादिशब्दानां शृङ्खलाक्रमेण स्थितत्वाद् रशनारूपकम् । एवम्" गाम्भीर्येण समुद्रोऽसि गौरवेणासि पर्वतः ।। कामदत्वाच लोकानामसि त्वं कल्पपादपः ॥ ७१५ ॥" इति हेतुरूपकादयो भूयांसो रूपकप्रकाराः परेऽपि सम्भवन्ति, ग्रन्थगौरवभयात् तु नोदाहियन्ते । रूपके चात्र यद्यप्यारोप्यमाणस्य मुख्यत्वादाविष्टलिङ्गसङ्ख्यत्वम्, तथापि क्वचित् स्वतः सङ्ख्या-योगासम्भवे प्रत्येकमारोपाद् विषयसङ्ख्यत्वम् । यथा कचिजटावकलावलम्बिनः कपिला दावाग्नयः' इत्यादि ॥ २२ ॥ अथाभेदप्राधान्येऽप्यपह्नवालङ्कृतत्वेन रूपकपृथग्भूतामपनुतिं लक्षयति विषयेऽपहनुतिं नीते तदन्येन त्वपनुतिः । विषये प्रस्तुतवस्तुनि तदन्येन विषयिणाऽप्रस्तुतेनारोप्यमाणेनापह्नुतिमपलापं नीते प्रापिते सत्यपहनुतारूपाऽलङ्कृतिः । सा च सादृश्यवती सादृश्यरहिता चेति द्विविधा । तत्रारोपपूर्वोऽपह्नवोऽपहवपूर्वश्वारोप इति अ. .पण्य० । २ प. रसना०। ३ प. विक्र० । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy