SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५६ अलङ्कारमहोदधौ अत्र ' मुखमिन्दुः ' इत्यादिवत् तथाविधप्रसिद्धरभावात् कविमिन निष्कम्पतया रूपकमेवं व्यवहर्तुं शक्यते, इत्युत्प्रेक्षा सहायीकृत्य निबद्धम् । यथा वा" किं तारुण्यतरोरियं रसभरोद्भिन्ना नवा वल्लरी ? । लीलाप्रोच्छलितस्य किं लहरिका लावण्यवारांनिधेः १ । उद्गाढोत्कलिकावतां स्वसमयोपन्यासविश्रम्भिणः किं साक्षादुपदेशयष्टिरथवा देवस्य शृङ्गारिणः १ ।। ७१०॥" अत्राप्यनेनैव न्यायेन ससंशयमुपनिबद्धम् । रूपकरूपकं यथा" मुख-पङ्कज-रङ्गेऽस्मिन् भू-लता-नर्तकी तव । लीला-नाव्यामृतं दृष्टौ सखि ! यूनां निषिञ्चति ।। ७११ ॥" अत्र मुखमेव पङ्कजं तदेव रङ्गः । भूरेव लता सैव नर्तकी । लीलैच ना तदेवामृतमिति रूपकस्यापि रूपणेन रूपकरूपकम् । वैधाकं यथा" सौजन्याम्बुमरुस्थली सुचरितालेख्ययुभित्तिर्गुण___ ज्योत्स्नाकृष्णचतुर्दशी सरलतायोगश्च पुच्छच्छटा । यैरेषाऽपि दुराशया कलियुगे राजावली सेविता तेषां शूलिनि भक्तिमात्रसुलभे सेवा कियत् कौशलम् ॥ ७१२ ॥" अत्राम्बुप्रभृतीनां मरुस्थन्यादावसम्भवाद् वैधय॑म् । व्यतिरेकाङ्कं यथा" अनाघातं पुष्पं किसलयमलूनं कररुहै रनामुकं रत्नं मधु नवमनास्त्रादितरसम् । १ व. • भिनिः । २ व. ०मेक । ३ प. मंजरी । ४ व. इव । ५ व. ०खद्युतिनिर्गः । ६ अ. .येकं । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy