SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५४ अलङ्कारमहोदधौ " ध्वान्तानां दण्डधारः कुमुदपरिषदां जागराकेलिकारः शृङ्गारस्याङ्गरक्षः सरसिरुहवनीसम्पदा स्थूललक्षः । प्रस्थास्नोदिग्जयाय स्मर-धरणिपतेर्मङ्गलारम्भकुम्भः संरम्भः सिन्धुवारामयमुदयगिरेमौलिमारोहतीन्दुः ।। ७०३ ॥" अथ परम्परितमाहद्वे परम्परिते श्लिष्टाश्लिष्टशब्दनिबन्धने । केवले मालया दृब्धे चेति ते द्वे अपि द्विधा ॥ २१ ॥ श्लिष्टशब्दनिवन्धनमश्लिष्टशब्दनिबन्धनं चेति द्वे परम्परिते । एकस्य रूपणादन्यस्य रूपणमिति परम्परया जातत्वात् । ते च द्वे अपि केवलत्वेन मालागुम्फितत्वेन च प्रत्येकं द्विविधे । तत्र श्लिष्टनिवन्धनं केवलं यथा" किं पनस्य रुचि न हन्ति नयनानन्दं विधत्ते न कि ? वृद्धिं वा झषकेतनस्य कुरुते नालोकमात्रेण किम् ।। वक्त्रेन्दौ तव सत्ययं यदपः शीतांशुरभ्युद्गतो दर्पः स्यादमृतेन चेदिह तदप्यस्त्येव बिम्बाधरे ॥ ७०४ ॥" अत्र वक्त्रस्येन्दुत्वेन रूपणादधरामृतस्य पीयूषपर्यायामृतत्वेन रूपणम् । मालारूपं यथा" विद्वन्मानसहंस ! वैरिकमलासङ्कोचदीप्तद्युते ! दुर्गामार्गणनीललोहितसमित्स्वीकारवैश्वानर !। सत्यप्रीतिविधान-दक्षविजयप्राग्भावभीम ! प्रभो! साम्राज्यं वरवीर ! वत्सरशतं वैरश्चमुच्चैः क्रियाः ॥ ७०५ ॥" अत्र मानसमेव मानसम् । कमलायाः सङ्कोच एव कमलानामसङ्कोचः । दुर्गाणाममार्गणमेव दुर्गाया मार्गणम् । समितां स्वीकार एव समिधा स्वीकारः । सत्ये प्रीतिरेत्र सत्यामप्रीतिः । विजयः परपराभव एव विजयोऽर्जुनः । एवमाघारोपणं हंसाधारोपणपूर्वकमिति श्लिष्टशब्दं मालापरम्परितम् । १ अ. प. वा । २ अ. नात्र लो० । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy