SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५३ अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः । अत्र मुखस्य लतादित्वेन रूपणं नास्ति । यथा वा" विद्युद्वलयकक्षाणां बलाकामालभारिणाम् । पयोमुचा ध्वनि/रो दुनोति मम मानसम् ॥ ६९५ ॥" अत्र पयोमुचो दन्तित्वेन रूपिताः । अवयवरूपकमप्येतद् । द्वितीयो यथा" उपोढरागेण विलोलतारकं तथा गृहीतं शशिना निशामुखम् । यथा समस्तं तिमिरांशुकं तया पुरोऽपि रागाद् गलितं न लक्षितम् ॥७००॥" अत्र तिमिरस्यैवांशुकत्वेन रूपणम् । शेष रूपणं त्वर्थ सामर्थ्यगम्यम् ॥१९॥ अथ निरङ्गमाहनिरङ्ग केवलं मालागुम्फितं चेति तद् द्विधा ॥ २० ॥ निरङ्ग नाम रूपकं केवलमसहायं मालागुम्फितं चेति द्विविधम् । तत्र केवलं यथा" कुरङ्गीवाङ्गानि स्तिमितयति गीतध्वनिषु यत् सखीं कान्तोदन्तं श्रुतमपि पुनः प्रश्नयति यत् । अनिद्रं यच्चान्तः स्वपिति तदहो ! वेयभिनवां प्रवृत्तोऽस्याः सेक्तुं हृदि मनसिजः प्रेमलतिकाम् ।। ७०१ ॥" यथा वा" बल्गितच गलधर्मजलमालोहितेक्षणम् । विवृणोति मदावस्थामिदं वदनपङ्कजम् ।। ७०२ ॥" इदमवयविरूपकमपि । मालागुम्फितम् । यथा १ अ. अवचय० । २ प. ०मित्येतत् । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy