SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः ।। भेदाभावेऽप्यसम्पन्नापडूनवे विषये निजम् । रूपमारोपयेद् यत्र विषयी रूपकं तु तत् ॥ १८ ॥ रूपकं पुनस्तद् यत्र मुखेन्दुरित्यादौ मुखमिन्दुरित्यादौ च शब्दप्रयोगे विषयी चन्द्रादिरारोपणीयो निजं स्वकीयं रूपं सर्वाकारं परिस्पन्दविशेष विषये आरोपाधारे मुखादावारोपयेनिवेशयेत् । कीदृशे विषये भेदाभावेऽप्यभेदप्राधान्येऽपि सत्यसम्पापडूनवेऽसञ्जातापलापे । यदि हि भेदप्राधान्य स्यात् तदा विषयिणः सौन्दर्यातिशयादयो धर्मा विषये न प्रतीयेरन् । तदर्थं च रूपकस्य प्रवृत्तत्वाद, यदि च विषयापह्नवोऽपि स्यात्, तदाऽतिशयोक्त्यपहनुत्यायलङ्कारान्तरमाविर्भवेत् । तस्मादभेदप्राधान्ये विषयापहवे वाऽयमलङ्कारः ॥ १८॥ अथास्य भेदानाहसाङ्गं निरहं च परम्परितं चेति तत् त्रिधा । तत्र साङ्गमाहसमस्तवस्तुविषयं श्रौतारोप्यस्थमादिमम् ॥ १९ ॥ श्रौता आरोपविषया इव श्रुत्या शब्देनोपात्ता ये आरोप्या आरोपयोग्याः समस्ता अप्यर्थाः तेषु यत् तिष्ठति तत् समस्तवस्तुविषयं नामादिमं साङ्गं रूपकम् । तदपि समस्तमसमस्तं समस्तासमस्तं चेति विधा। तत्र समस्तं यथा" ज्योत्स्नाभस्मच्छरणधवला विभ्रती तारकास्थी न्यन्तर्धानव्यसनरसिका रात्रि-कापालिकीयम् । द्वीपाद् द्वीपं भ्रमति दधती चन्द्रमुद्रां कपाले, न्यस्तं सिद्धाञ्जनपरिमलं लाञ्छनस्य च्छलेन ॥ ६९४ ॥" For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy