________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५०
अलकारमहोदधौ अथैकस्याप्यनेकरूपताऽऽरोपाद् भ्रान्तिमत्सब्रह्मचारिणमुल्लेखमाहउल्लेखो विविधाद् हेतोरेकस्यानेकधा ग्रहः ॥ १७ ॥ विविधादनेकरूपाद् हेतोः कारणात यः कश्चिदेकस्यानेकधा बहुप्रकारो ग्रहणं स एष रूपबाहुल्योल्लेखनादुल्लेखः । अत्र च रुच्यर्थित्व-व्युत्पत्तयो यथासम्भवं हेतवः । यदुक्तम्“ यथारुचि यथार्थित्वं यथाव्युत्पत्ति भिद्यते ।
आमासोऽप्यर्थ एकस्मिन्ननुसन्धानसाधितः ॥ ६९३ ॥" अत्रोदाहरणं यथा श्रीहर्षचरिते श्रीकण्ठजनपदवर्णने यस्तपोवनमिति मुनिभिा, कामायतनमिति वेश्यामिा, सङ्गीतशालेति लासकैरित्यादि । अत्रैक एव श्रीकण्ठस्तत्तद्गुणयोगात् तपोवनाद्यनेकरूपतया निरूपितः । नन्वतन्मध्य एव वज्रपञ्जरमिति शरणागतैः, असुरविचरमिति वातिकरित्यादौ रूपकयोग एवास्ति; तदिहापि स एवास्तु, किमुल्लेखमणनेनेत्यत्रोच्यते-अस्ति तावद् यस्तपोवनमित्यादौ रूपकादुल्लेखस्य विविक्तो विषयो यत्र धार्मिकर्जनाकीर्णवादिना वस्तुकृत्यैव जनपदस्य तपोवनादिरूपतायाः सम्भवः । यत्र पुनर्वपञ्जरमित्यादावतद्रूपस्य तद्रूपताऽऽरोपाद् रूपकस्यातादृशस्य तारशत्वप्रतीतेओन्तिमतश्च सम्भवस्तत्राप्येषा भङ्गिः सम्भवत्येव । ततस्ताभ्यामस्तु सङ्करः। सर्वथाऽप्यस्याभावे वस्तु न शक्यते वकुमेवमभेदरूपायामतिशयोक्तावप्येष नान्तर्भवत्यनेकधात्वोट्टङ्कनस्याधिकृतत्वात् । सङ्करस्तु तयाऽप्यस्त्येव। यथा'नारायणु त्ति परिणयवयाहि ' इत्यादौ । 'गुरुर्वचसि पृथुरुरसि, अर्जुनो यशसि' इत्यादौ तु रूपकप्रतिमोत्पत्तिहेतुः श्लेष एव बहुधोकनमात्रात् । पुनर्यद् यस्यापि [क ]श्चिदंशः सम्भवति, तदनेनापि सङ्करोऽस्तु । ' युधिष्ठिरः सत्यवचसि' इत्यादौ रूपकमेवेति ॥ १७ ॥
अथ सादृश्यप्रक्रमे भेदप्रधानानलङ्कारानभिधायामेदप्रधानानभिषित्सुः प्रथमं रूपकमाह
. प. .र्थत्वं । २ प. वृत्ताकी ० । ३ प, भावस्तु । ४ अ. ०दभेद । ५ अ. ०धिक० ।
For Private And Personal Use Only