SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः । २४९ "समर्थये यत् प्रथम प्रियां प्रति क्षणेन तन्मे परिवर्ततेऽन्यथा ! अतो विनिद्रे सहसा विलोचने करोमि न स्पर्शविभावितप्रियः ॥६८९॥" अत्र प्राप्तलतारूपोर्वशीपरिष्वङ्गसुखनिमीलिताक्षस्य पुरूरवसः शापान्ताविर्भूतसत्यरूपायामपि तस्यां वस्त्वन्तरभ्रान्तिः । यथा वा+" सो मुद्धमओ मायण्हिाहिं तह दूमिओ हयासाहि । जह सब्भावमईण वि नईण वि परंमुहो जाओ ॥ ६९० ॥ " अत्र सत्यनदीष्वपि मृगतृष्णाभ्रान्तिः । ___ मालारूपोऽप्येष यथा" नीलेन्दीवरशङ्कया नयनयोर्बन्धूकबुद्ध्याऽधरे पाणौ पबधिया मधूककुसुमभ्रान्त्या तथा गण्डयोः । लीयन्ते कबरीषु बान्धवकुलव्यामोहजातस्पृहा दुर्वारा मधुपाः कियन्ति भवती स्थानानि रक्षिष्यति ? ॥६९१॥" अत्र युवत्यवयवेषु नयनादिषु मधुपानां नीलोत्पलादिम्रान्तिः । गाढमर्मप्रहारादिना तु भ्रान्ति स्य विषयः । यथा" दामोदरकराघातचूर्णिताशेषवक्षसा । दृष्टं चाणूरमल्लेन शतचन्द्रं नभस्तलम् ।। ६९.२ ।। " सादृश्यहेतुकाऽपि भ्रान्तिर्विच्छित्यर्थ कविप्रतिमोत्थापितैय गृह्यते, नापराशुक्तिकायां रजतभ्रान्तिवत् । + स मुग्धमृगो मृगतृष्णिकाभिस्तथा दूनो हताशाभिः । यथा सद्भाववतीभ्योऽपि नदीभ्योऽपि परामुखो जातः । १ अ.. आएहिं । २ प. ०धुराः । ३ अ. ध्यते । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy