SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रस्तावना। [२३] जैनश्वे. कॉ. प्र. जैनग्रन्थावल्याम् ३१४ तमे पृष्ठे ' अर्थालङ्कारवर्णन ' नाम्नाऽसूचि सैषैव ज्ञायते । २ प. पत्तने गूर्जरदेशीयप्राचीनराजधान्यामेतद्रराज्यान्तर्गते नगरे ' फोफलियावाडा आगली शेरी ' संज्ञके स्थले तपागच्छीयग्रन्थभाण्डागारे स्थिता २१ (१७+४) पत्रात्मिका अमरकविकृतसावचूरिकस्यादिशब्दसमुच्चयसहिता द्वितीया प्रतिः ता. २२-३-३० वर्षे प्रवर्तककान्तिविजयमुनिरानद्वारा कियत्कालं प्राप्ताऽऽसीत् यदाऽहं वटपद्रराज्यपुस्तकालयपरिषत्प्रदर्शनप्रसङ्गे तत्र गत आसम्। '१०x४३' तत्पुस्तिकायां मध्ये मूलम् ,परितश्च विभागचतुष्टये सूक्ष्माक्षरलिप्यां व्याख्या वर्ततेऽन्तिमद्वादशपत्रद्वयस्य चन्यूनता। सं. १४९३ वर्षे लिखिता चैषा सूचिता सहचरे ग्रन्थे। पाठान्तरप्रदर्शनेऽत्र प. सङ्केतेनोपलक्षिता । 'फोटोस्टेट' राजकीयसाधनत एतस्या द्विगुणा बृहती( एन्लार्ज) कारिता प्रतिकृतिः प्राच्यविद्यामन्दिरेऽत्र संस्थापिता । एतस्याः स्वरूपप्रबोधो भवि. प्यत्यत्र प्रारम्भपत्रस्य प्रतिकृतेर्शनेन । वटपद्रीयेऽत्र प्राच्यविद्यामन्दिरे प्रागेव सङ्ग्रहीता ६२ पत्रात्मिकाऽपूर्णाऽशुद्धा च प्रतिरत्र व. संज्ञयाऽसूचि । एषा प्रतिः प्राक् सम्पादनार्थं मि. ए. पी. बान शास्त्रि. महाशयायेतः ता. १-५-२५ वर्षे प्रेषिताऽऽसीत् , किन्तु तस्माद शुद्धिबहुलादेकस्मादेवादर्शात् तत्सम्पादनं दुःशकं विचार्य तेन पश्चात् प्रेषिता ता. २४-२-२८ वर्षे ततः प्रत्यागता । तदनन्तरं प्रयत्नवता मया गवेषणातः पूर्वोक्तं प्रतिद्वयं सम्प्राप्तम् । ___ एवं प्राचीनादर्शपुस्तकत्रयाधारेण भूरिपरिश्रमेण पाठान्तरादिभिः परिष्कृत्य यथामति यथाशक्यं सावधानतयाऽस्य महतो ग्रन्थस्य सम्पादनमकारि । आचार्यभावदेवीयकाव्यालङ्कारसारसङ्ग्रहस्य प्रतित्रयम् । १५. संज्ञिता पत्रत्रयात्मिका प्राचीना प्रतिरितिहाससंशोधकश्रीविनयेन्द्रसूरिणोपदीकृताऽत्र प्राच्यविद्यामन्दिरे १३७६६ क्रमाङ्के विद्यते । २ अ. संज्ञिता पत्रत्रयात्मिका प्रतिः सं. १९९३ वर्षेऽहम्मदावादे नूतना लेखिताऽवत्यजैनज्ञानमन्दिरात् प्रवर्तककान्तिविजयमुनिराजीयशास्त्रसमहात् (क्र. ४८ ) प्राप्ताऽऽसीद् । एषा प्रायशः पूर्वामनुकरोति । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy