SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२२] अलङ्कारमहोदधिप्रभृतिविरुदसन्मानिताभ्यामनेकोपयुक्तग्रन्थकर्तव्यकारकाभ्यां कादम्बरी-वासवदत्तावसन्तराजशकुनशास्त्र-विवेकविलास-शोभनस्तुति-जिनशतक-सप्तस्मरणादिविविधग्रन्थव्याख्यातृभ्यामेताभ्यां काव्यप्रकाश-विवृति( दूषणखण्डन )प्रणयनमपि चक्रे । विशेषार्थिना सिद्धिचन्द्ररचितं श्रीयुतमोहनलालदेशाईसम्पादितं सिंधीजैनग्रन्थमाला[ग्रं. १५ द्वारा प्रकाशितं भानुचन्द्रगणिचरितं द्रष्टव्यम् । (४) विक्रमीयाष्टादशशताब्याः प्रारम्भे सुप्रसिद्धन्यायविशारदोपाध्याययशोविजयादिकृताऽपि वृत्तिः श्रयते । सरस्वतीकण्ठाभरणे । आजडः । सुप्रसिद्धभोजराजकृतस्य सरस्वतीकण्ठाभरणस्य विषमपदोपनिबन्धरूपः पदप्रकाशो भाण्डशालिपार्श्वचन्द्रसूनुनाऽनेन विहितः पत्तनस्थप्राच्यजैनभाण्डागारीयग्रन्थसूच्यां (पृ. ३७-३९) सूचितोऽस्माभिरद्यावधि प्रसिद्धिं नाधिगतः । विदग्धमुखमण्डने । अवचूर्णि(रि)कारस्य नाम न परिज्ञातम् , जिनेन्द्रमङ्गलादि दर्शितमन्यत्र जिनप्रभसूरिरचिताऽवचूर्णिः सूच्यते (वेबर, बों. बां. री. ए. सो. पु. सूचिपत्रे भा. १, पृ. १५६) जिनप्रभसूरि अने सुलतान महम्मद । संज्ञके ग्रन्थे मया तत्परिचयोऽकारि । शिवचन्द्र( ख. सं. १६६९)-विनयरत्न-विनयसागर( सं. १६९९)प्रभृतिभी रचिता अप्येतदव्याख्याः श्रूयन्ते। अलङ्कारमहोदधि-पुस्तिकात्रय-परिचयः । प्रकाशितस्य प्रस्तुतस्यालङ्कारमहोदधेः प्रतिः (अ.), अहम्मदावादनगरे 'डेहला' संज्ञकोपाश्रयस्थजैनग्रन्थभाण्डागारे स्थिता ३९ पत्रात्मिका, १०६x४ मनोहरसूक्ष्मवर्णनयो नागरीलिपिलिखिता प्रायः पञ्चशतवर्षप्राचीना परिपूर्णा प्रायःशुद्धा स्व.केशवलाल प्रे. मोदी बी. ए. एल्लूएल. बी. महाशयद्वारा ता. १४-५-३० वर्षे स्वल्पसमयार्थं प्राप्ताऽऽसीतू, ततः 'फोटोस्टेट ' राजकीयसाधनद्वारा शीघ्रं कारिता प्रतिकृतिरत्र विशेषेण समुपयुक्ता समजनि, पाठ-भेद-प्रदर्शनेत्र स्ला अ. संज्ञया निरदेशि । एतस्याः स्वरूपपरिज्ञानाय प्रान्तपत्रस्य प्रतिकृतिरत्र प्रारम्भे प्रदर्शिता । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy