SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः। अत्रार्थसादृश्यम् । निश्चयगर्भो यथा" अयं मार्तण्डः किं स खलु तुरगैः सप्तभिरितः कृशानुः किं सर्वाः प्रसरति दिशो नैष नियतम् । कृतान्तः किं साक्षान्महिषवहनोऽसाविति चिरं समालोक्याजौ त्वां विदधति विकल्पान् प्रतिभटाः ॥ ६८३ ।" निश्चयान्तो यथा" मैनाकः किमयं रुणद्धि गमने मन्मार्गमव्याहतं शक्तिस्तस्य कुतः स वज्रपतनाद् भीतो महेन्द्रादपि । तायः सोऽपि समं निजेन विभुना जानाति मां रावणं आ! ज्ञातं स जटायुरेष जरसा क्लिष्टो वधं वाञ्छति ॥ ६८४ ॥" अत्रे च कविप्रतिभोन्मीलितः संशयो ग्राह्यो न पुनः स्थाणुर्वा पुरुषो वेति । सादृश्यव्यतिरित्तविषयं तु सन्देहं वितर्काख्यमलङ्कारान्तरमन्ये मन्यन्तेऽस्मन्मते तु विना सादृश्याधिकारमनेनैव सङ्गहीतत्वान्न पृथग् लक्षणारम्भः । तथाहि-यत् प्रकारान्तरेणापि प्रकृतिविषयं सन्दिह्यमानत्वं स संशय इति । यथा अस्याः सर्गविधौ प्रजापतिरभूत्' इत्यादिः। अत्रातिशयोक्या संशयस्य संकरः। यथा - " अयमसौ भगवानुत पाण्डवः स्थितमवाङ्मुनिना शशिमौलिना । समधिरूढमनेन तु जिष्णुना स्यादिति वेगवशान्मुमुहे गणैः ।। ६८५ ॥" कचिदारोप्यमाणानां भिन्नाश्रयत्वेनापि दृश्यते । यथा-- " रञ्जिता नु विविधास्तरुशैला नामितं नु गगनं स्थगितं नु ? । पूरिता नु विषमेषु धरित्री संहृता नु ककुंभस्तिमिरेण ॥ ६८६ ॥" १ व. नैव । २ अ. गगने । ३ प. सन्मा० । ४ व. ०प० । ५ अ, त्र क० । ६ व. वा । ७ अ.व. कु०, प, न । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy