SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४६ अलकारमहोदधौ सदृशावलोकनं विना तु स्मृति यमलङ्कारः । यथा" अत्रानुगोदं मृगयानिवृत्तस्तरङ्गवातेन विनीतखेदः । रहस्त्वदुत्सङ्गनिषण्णमूर्धा स्मरामि वानीरगृहेषु सुप्तम् ॥ ६८० ॥" इत्यादौ प्रागुदाहृते व्यभिचारिणि अत्र च कर्तृविशेषणानां स्मर्तव्यदशाभावित्वे स्मर्तुर्दशाभावित्वमसमीचीनमिति । अथ सादृश्यहेतुकत्वेनैव स्मरणानुयायिनं संशयमाह संशयः स तु सन्दिह्यमानत्वं प्रकृतस्य यत् ॥ १६ ॥ स पुनः संशयाख्योऽलङ्कारो यत् प्रकृतस्य वर्ण्यमानस्य सदृशप्रस्तावादप्र. कृतेन केनापि सदृशवस्तुना सन्दिह्यमानत्वं सन्देहविषयत्वं स च संशयः शुद्धो निश्चयगर्भो निश्चयान्तश्च । तत्र शुद्धो यत्र संशय एव पर्यवसानम् । यथा" सेयं किं कालरात्रिः किमुत पितृपतिप्रजिह्वालतेयं किंवा कालीकटाक्षद्युतिरियमथवा देहिनी दुर्दशेयम् । इत्थं सङ्ग्रामरङ्गाङ्गणभुवि नटनापाटवं नाटयन्ती दृष्ट्वा यस्यासियष्टिं प्रतिनृपतिभटैः स्वैरमूहाम्बभूवे ॥ ६८१ ॥" अत्र रूपकृतं सादृश्यम् । यथा वा" आहारे विरतिः समस्तविषयग्रामे निवृत्तिः परा नासाग्रे नयनं यदेतदपरं यच्चैकनिष्ठं मनः । मौनं चेदमिदं च शून्यमखिलं यद् विश्वमाभाति ते तेद् ब्रूयाः सखि ! योगिनी किमसि भोः ! किंवा वियोगिन्यसि ? ॥६८२॥" १ प. शालो० । २ अ. ०ना स्मृ० । ३ प. तैरपनी । ४ प. अत्रादौ । ५ अ. यद् । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy