SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः। २४५ अत्र त्वमेवेशी नापरेत्यनन्वयेन प्रकाश्यते । इहाभेदे भेद इत्येवंरूपाऽतिशयोक्तिद्रष्टव्या । एवमुत्तरत्रापि सर्वत्र यथासम्भवं कचित् कदाचिदतिशयोक्तिज्ञातव्या। __ अथोपमेयोपमामाहउपमेयोपमा भिन्नवाक्यस्थे व्यत्यये तयोः ॥ १५ ॥ तयोरुपमानोपमेययोयत्यये विपर्यये भिन्नवाक्यस्थे द्वितीयवाक्यस्थिते . सत्युपमेयोपमा । इयं साधारणधर्मस्य प्रयोगादप्रयोगाच्च द्विषा। तत्राद्या यथा " सच्छायाम्भोजवदनाः सच्छायवदनाम्बुजाः । वाप्योऽङ्गना इवाभान्ति यत्र वाप्य इवाङ्गनाः ।। ६७७ ।।" अत्र सच्छायेति साधारणधर्मः। द्वितीया यथा" खमिव जलं जलमिव खं हंसश्चन्द्र इव हंस इव चन्द्रः । कुमुदाकारास्तारास्ताराऽऽकाराणि कुमुदानि ॥ ६७८ ॥" अत्र भिन्नवाक्यत्वभणनादेकवाक्यत्वं पूर्वस्मिन्नन्वये सिद्धमेव ॥ १५ ॥ अथ सादृश्यप्रस्तावादेव स्मरणमाहस्मरणं या स्मृतिस्तुल्यदर्शनात् प्रतिवस्तुनः । तुल्यदर्शनात् सदृशावलोकनात् प्रतिवस्तुनोऽनुभूतवस्त्वन्तरस्य या स्मृतिस्तत् स्मरणम् । यथा " अदृश्यन्त पुरस्तेन खेलाः खञ्जनपतयः । अस्मर्यन्त विनिःश्वस्य प्रियानयनविभ्रमाः ॥ ६७९॥" १ प. द्रष्टव्या । २ व. ०पर्यासे । ३ प. गत्वाच । ४ अ. वा । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy