SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४४ अलङ्कारमहोदधौ ते सम्प्रत्यकठोरवारणवधूदन्ताङ्करस्पर्द्धिनो नियोताः कमलाकरेषु बिसिनीकन्दाग्रिमग्रन्थयः ॥ ६७२॥" अत्र धातुद्योत्यापि । यथा च" सम्बन्धी रघुभूभुजां मनसिजव्यापारदीक्षागुरु गौराङ्गीवदनोपमापरिचितस्तारावधूवल्लभः । सद्योमार्जितदाक्षिणात्यतरुणीदन्तावदातद्युति___श्चन्द्रः सुन्दरि ! दृश्यतामयमितश्चण्डीशचूडामणिः ॥ ६७३ ।।" यथा वा" उद्गर्भहणतरुणीरमणोपमर्दभग्नोन्नतिस्तननिवेशनिभं हिमांशोः । विम्ब कठोरविसकाण्डकडारगौरैर्विष्णोः पदं प्रथममग्रकरैर्व्यनक्ति ॥६७४॥" यथा वो–'सद्योण्डितमत्तहूणचिबुकप्रस्पर्द्धि नारङ्गकम् । इति । एवमुक्तानुसारेणान्यापि काचिद् रसनोपमाप्रभृतिरुपमा स्वयमम्यूह्या । अत्र सर्वत्राप्यसम्बन्धे सम्बन्ध इत्यादिरूपः कोऽप्यतिशयोक्तिपरिमलो विद्यत एषेति ॥ १४ ॥ अथौपम्यप्रस्तावादनन्वयमाह एकस्यैवोपमानोपमेयत्वे स्यादनन्वयः । एकस्यैव प्रकृतस्यैवोत्कर्षदानाय सदृशवस्त्वन्तरनिवृत्यर्थ यदुपमानत्वमु. पमेयत्वं च कल्प्यते । तस्मिन् सति द्वितीयसदृशानुगमाभावादनन्वयः स्यात् । यथा " त्वन्मुखं त्वन्मुखमिव त्वदृशौ त्वदृशाविव ।। त्वन्मूर्तिरिव मूर्तिस्ते त्वमिव त्वं कृशोदरि ! ॥ ६७६ ॥" १ प. गोष्मधर्म० । २ प. च । ३ अ. व, मुद्रिः । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy