SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः । यत् किश्चिदसद् वितर्यते तदुत्प्रेक्षितं तद्वती । यथा" मय्येवास्या मुखश्रीरित्यलमिन्दोर्विकत्थनः । विकस्वरे सरोजेऽपि यत् सत्येव साऽन्वहम् ॥ ६६९ ।। एवमन्याऽपि"चन्द्रारविन्दयोः कक्षामतिक्रम्य मुखं तव ।। आत्मनैव कुरङ्गाक्षि ! तुल्यतां कलयत्यदः ॥ ६७० ॥" इत्यसाधारणोपमाऽऽदयः कविभणितिभङ्गयः सम्भवन्ति । तास्त्वनन्तत्वादुदाहर्तुं न शक्यन्ते इति ।। १२-१३ ।। अथोपमाया एव वास्तवं स्वरूपमाहएषा च लौकिकी लोकप्रसिद्धरनुरोधतः । एषा च सर्वाऽप्युपमा लोकप्रसिद्धरनुरोधाल्लौकिकी कोऽर्थो लोकप्रसिद्धमुपमानं लोकप्रसिद्धमुपमेयं च यस्यां सा लौकिकी । यथा--' कमलमिव मुखम्' इत्यादि । न पुनः 'कुमुदमिव मुखम् ' इत्यादि। यदि वा लोकाचरिता लौकिकी । यथा " स्थितः स्थितामुच्चलितः प्रयातां निपदुषीमासनबन्धधीरः । जलाभिलाषी जलमाददानां छायेव तां भूपतिरन्वगच्छत् ॥ ६७१ ॥" अथ कल्पितामाहया कविप्रतिभोन्मेषकल्पिता कल्पिता तु सा ॥ १४ ॥ सा पुनः कल्पिता या कवेः प्रतिभोन्मेषेण नवनवोल्लेखशालिप्रज्ञाविशेषोल्लासेन कल्पिता निष्पादिता । यथा" हंसानां निनदेषु यः कवलितैरासाद्यते कूजवा मन्यः कोऽपि कषायकण्ठलुठनादाघर्षरो विभ्रमः। १ व. ०बद्ध० । २ प. यः । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy