________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२४०
अलङ्कार महोदधौ
तथा
दृष्टान्तवत् क्वचिद बिम्ब- प्रतिबिम्बमनोज्ञता ॥११॥
यथा दृश्यन्ते तथा कस्मिंश्चिदुपमाभेदे द्वयोरप्युपमानोपमेययोर्धर्मद्वयस्य विम्बप्रतिबिम्बमनोहरत्वम् । यथा
Acharya Shri Kailassagarsuri Gyanmandir
19
" पाण्ड्योऽयमंसार्पितलम्बहारः क्लृप्ताङ्गरागो हरिचन्दनेन । आभाति बालातपरक्तसानुः सनिर्झरोद्वार इवाद्रिराजः ।। ६५४ ॥ अत्र हाराङ्गरागयोर्धर्मयोर्निर्झर - बालातपौ प्रतिबिम्बत्वेन निबद्ध ||११|| पुन: कांश्चिदुपमाभेदानाह-
साऽनेक द्योतका सर्वद्योतका द्योनकोज्झिता । धातुद्योत्या विपर्यासवती वैधर्म्यशालिनी ॥ १२ ॥ नियमानिय मोरेता विक्रयातिशयाङ्किता ।
R
प्रतिषेधाद्भुता श्लिष्टा श्लेषोत्प्रेषितवत्यपि ॥ १३ ॥'
अनेकं द्विप्रभृतिद्योतकं पदं यस्यां सा । यथा-
66
दिने दिने सा परिवर्धमाना लब्धोदया चान्द्रमसीव लेखा । पुपोष लावण्यमयान् विशेषान् ज्योत्स्नान्तराणीव कलान्तराणि ॥ ६५५ || " अत्रैवाक्येऽपि द्योतकद्वयस्य प्रयोगः ।
तथा सर्वं सर्वोपमानगतं द्योतकं यस्यां सा । यथा
" अलिवलयैरलकैरिव कुसुमस्तवकैः स्तनैरिव वसन्ते ।
भान्ति लता ललना इव पाणिभिरिव किसलयैरधिकम् ॥ ६५६ ।। " अ सर्वोपमानेषु द्योतकनिवेशः ।
तथा द्योतकेनोज्झिता त्यक्ता । यथा
१ प ०हार० । २ प यामलम् । ३ प. ०ति प० । ४ व. तथा । ५ व. तथा ।
For Private And Personal Use Only