SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः । २३९ करीयति कजलं पिककुलं लीलामरालीयति स्वाकुम्भीयति कुम्मिनामपि घटा यत्कीर्तिसम्पर्कतः ॥६५१॥" अत्र गङ्गामिवात्मानमाचरत्यसितापगेत्यांदिष्वात्मनो द्योतकस्य च लोपः । इयं लुप्तोपमाऽपि यथायोगं श्रौती चार्थी च ज्ञातव्या । अथोपमाया एव मेदानाहधर्मस्य तस्यामेकत्वं सर्वानुगतया क्वचित् ॥ १० ॥ तस्यामुपमायां क्वचित् कस्मिंश्चित् कविप्रौढिनिर्मिते काव्ये सर्वानुगतया सर्वोपमानानामुपमेयस्य चानुगामित्वेन धर्मस्यैकत्वमेकरूपत्वम् । यथा " प्रभामहत्या शिखयेव दीपस्त्रिमार्गयेव त्रिदिवस्य मार्गः । संस्कारवत्येव गिरा मनीषी तया स पूतश्च विभूषितश्च ।। ६५२ ॥" अत्र पूतश्च विभूषितश्चेत्येक एव धर्मः सर्वाननुगच्छति । इयमेव मालोपमा ॥ १० ॥ तथा--- क्वचित् पृथग्विनिर्देशः प्रतिवस्तृपमानवत् । यथा प्रतिवस्तूपमायां तथा क्वचित् कस्यांचित् उपमायामुपमाने उपमेये च धर्मस्य पृथक् पृथग् निर्देशः । यथा " यान्त्या मुहुर्वलितकन्धरमाननं त-- दावृत्तवृन्तशतपत्रनिभं वहन्त्या । दिग्धोऽमृतेन च विषेण च पक्षमलाक्ष्या गाढं निखात इव मे हृदये कटाक्षः ।। ६५३॥" अत्र बलितव्यावृत्तत्वे द्वयोरप्युपमानोपमेययोरेकार्थों पृथक् पृथग्धौं निबद्धौ। १ प. पगामिः । २ प. च्यात्म० । ३ व. कस्मिश्चि०। ४ प. ०तत्वावृ० For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy