________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः । अत्र साधारणधर्मलोपः।
यथा वा" त्वन्मुखं पुण्डरीकं च फुल्ले सुरभिगन्धिनी ।
कोमलापाटलौ तन्वि ! पल्लवश्चाधरश्च ते ॥ ६४३ ॥" अत्र द्योतकलोपः।
द्विलोपे यथा" *दुंदुल्लंतु मरीहिसि कंटयकलिआई केअईअवणाई ।
मालइकुसुमेण समं भमर ! भमंतो न पाविहिसि ॥ ६४४॥" अत्र धर्मोपमानयोर्लोपः।
समासे यथा" मुखमिन्दुसुन्दरं ते बिसकिसलयकोमले भुजालतिके ।
जघनस्थली च सुन्दरि ! तव शैलशिलाविशालेति ॥ ६४५ ॥" अत्र द्योतकलोपः।
द्विलोपे यथा-- ' ढुंढुल्लंतु मरीहसि ' इत्यादि गाथायां ' मालइकुसुमसरिच्छं' इति समासे कृते धर्मोपमानयोलोपः।
त्रिलोपे यथा" तरुणिमनि कृतावलोकना ललितविलासविलब्धविग्रहा । स्मरशरविशरारितान्तरा मृगनयना नयते मुनेमनः । ६४६ ॥"
* गवेषयन् मरिष्यसि कण्ट ककलितानि केतकीवनानि ।
मालतीकुसुमेन समं भ्रमर ! भ्रमन् न प्राप्स्यसि ।।
१ अ. मिरी० । २ अ, ०इवः ।
For Private And Personal Use Only