SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३६ अलङ्कारमहोदधौ प्रत्यये यथा" गाम्भीर्यगरिमा तस्य सत्यं गङ्गाभुजङ्गवत् । दुरालोकः स समरे निदाघाम्बररत्नवत् ।। ६३९ ॥" एवमादाविवादिद्योतकशब्देभ्य एव साक्षादौपम्यप्रतीतिरिति श्रौती पूर्णोपमा । आर्थी वाक्ये यथा-- " चकितहरिणलोललोचनायाः क्रुधि तरुणारुणतारहारिकान्ति । सरिसजमिदमाननं च तस्याः सममिति चेतसि संमंदं विधत्ते॥ ६४० ॥ __ समासे यथा-- " अवितथमनोरथपथप्रथनेषु प्रगुणगरिमगीतश्रीः । सुरतरुसदृशः स भवानमिलषणीयः क्षितीश्वर ! न कस्य ? ॥६४१॥" इत्यादिषु तु समादिद्योतकशब्द सद्भावेऽपि तात्पर्यार्थपर्यालोचनेनौपम्यप्रतीतिरित्यार्थी पूर्णोपमा ।। ९ ॥ ___ अथ लुप्तामाहलुसैकद्वित्रिलोपे स्यात् तद्वद् धर्मादिषु स्थिते । धर्मादिषु धर्मोपमानोपमेयद्योतकेष्वेकस्य द्वयोस्त्रयाणां वा लोपे स्थिते सञ्जाते सति लुप्ता नामोपमा । साऽपि तद्वत् पूर्णोपमावद् वाक्ये समासे प्रत्ययेऽपि च भवति । तत्र वाक्ये यथा" राजीवमिव ते वक्त्रं नेत्रे नीलोत्पले इव । रम्भास्तम्भाविवोरू च करिकुम्भाविव स्तनौ ।। ६४२ ॥" १ अ. ०णहा० । २ व. विदं ध० । ३ प. भगवा० । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy