________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः ।
२३५
त्कारि तेन सख-ज्ञेयत्व - प्रमेयत्व वृत्तत्वादिमात्रसाधर्म्येनोपमा यथा कुम्भ इव मुखमित्यादि । शृङ्गारादौ हास्यादौ तु न दोष इति । उपमायाः स्वरूपविशेक्षणमाह- सर्वालङ्कृतीत्यादि । सर्वासां रूपकाद्यलङ्कृतीनामियमेवोपादानकारणं समवायिकारणभूतेत्यर्थः । अत एव ताभ्यः प्रथममुपदिष्टेति ।
तद्भेदानाह - इयं च पूर्णा लुप्तेति बिभर्ति द्विप्रकारताम् ॥ ८ ॥ इयं चोपमा पूर्णा लुप्ता चेति द्विप्रकारतां विभर्ति धारयतीति ॥ ८ ॥ अथ पूर्णामाह
सामान्यस्योपमानोपमेययोद्यतकस्य च ।
प्रयोगे प्रथमा वाक्ये समासे प्रत्ययेऽपि च ॥ ९ ॥
सामान्यस्य साधारणधर्मस्योपमानोपमेययोश्च द्योतकस्य चोपमाप्रकाशकस्य इव - वा- यथाऽऽदेः सम-सदृश - सन्निमादेश्व शब्दस्य समस्तानामध्येषां प्रयोगे प्रथमा पूर्णोपमा । सा चक्क भवतीत्याह-वाक्ये समासे प्रत्ययेऽपि च । तत्र वाक्ये यथा
11
" कमलमिव चारु वदनं मृणालैमिव कोमलं भुजायुगलम् | अलिमालेव च नीला तवैव मदिरेक्षणे ! कबरी ।। ६३७ ॥ समासे यथा
" अत्यायतैर्नियमकारिभिरुद्वतानां दिव्यैः प्रभाभिरनपाय मयैरुपायैः । शौरिर्भुजैरिव चतुर्भिरदः सदा यो लक्ष्मीविलास भवनैर्भुवनं बभार ॥ ६३८ ॥
अत्र भुजैरिवेत्पत्र कैश्चिदिवेन सह विभक्त्यलोपे नित्यसमासो मन्यते । तन्मतानुसारेणेयं समासे पूर्णोपमा ।
१ प. युगली । २ अ, देति । ३ प ०लकमि० । ४ प. ०रुदारैः ।
For Private And Personal Use Only