SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २३४ अलङ्कारमहोदधौ सहार्थान् परित्यज्यवादीनां परिग्रहे सत्युपमारूपं गर्भे कुर्वाणा सहोक्तिरे वौपम्यगर्भिता इत्युच्यते । यथा Acharya Shri Kailassagarsuri Gyanmandir " धत्ते पत्युः प्रमाणां नलिनवनमिव ज्योतिरुजीगरत्वं भर्तुर्वारान्तरङ्गा इव तुहिन रुचेरंसवः सङ्कुचन्ति । रामाणां कामलीला इव च कुमुदिनीसम्पदः सेम्प्रियन्ते शोकः कोकाङ्गनानामिव तिमिरभरः स्तोकतां च प्रयाति ||६३६ || " अत्र नलिनवनादिभिर्ज्योतिरादीनामिवशब्देनौपम्यं द्योत्यते । सहार्थस्तु वाक्यार्थसामध्येंनैव लभ्यते ॥ ६ ॥ अथातिशयोक्तिसौरभतरङ्गितामेव सकलालङ्कारवीजभूतामुपम लक्षयतियदुत्कर्षवताऽन्येन तत्स्वरूपप्रतीतिकृत् । भेदाभेदे मनोहारि साधर्म्यं वर्ण्यवस्तुनः ॥ ७ ॥ सर्वालङ्कृत्युपादानकारणं सोपमा स्मृता । वर्ण्य वस्तुनो वर्ण्यमानस्य प्रकृतस्योपमेयभूतस्य वस्तुनोऽन्येन प्रकृतेनोपमानभूतेन वस्तुना यत् साधर्म्यं समानधर्मत्वं सा उपमानामालङ्कृतिः स्मृता पूर्वाचार्यैः कथिता । कथम्भूतेनाप्रकृतेन वस्तुनोत्कर्षवता ऽत्यन्तमुत्कर्षशालिना । न कर्षघर्षितेोपमानेन किमप्युपमेये सौन्दर्यमाधीयते । अत एवोक्तं तत्स्वरूपप्रतीतिकृद् इति । तस्योपमानस्य यत् स्वरूपं परिस्पन्दविशेषस्तस्य प्रतीति करोति यत् साधर्म्यम् । उपमेये पमान स्वरूपप्रतीतौ कोऽपि सातिशयः प्रकर्षः । तत एवोक्तं भेदाभेदे इति । व्यतिरेके हि भेदप्राधान्यम् । रूपके चाभेदप्राधान्यम् । अस्यां पुनर्भेदाभेदप्राधान्यम् । यदाहुः - 'यत्र किञ्चित् सामान्यं कचिच्च विशेषः स विषयः सदृशतायाः' इति उपमानोपमेययोर्हि कारणभेदेन भेदः । समानधर्माध्यासात् पुनरभेदः । किञ्चिदभेदप्रतीतौ पमान स्वरूपस्योपमेय गतत्वेनाध्यवसायादौपम्यं प्रकृष्यते । पुनः कीदृशं साधर्म्य मनोहारि सचेतनचेतश्चम १ प. ०ज्जारकत्वं । २. प. व संनिय० । ३ ब द्योतयति । ४ अ र्घ्यं च वस्तु० । ५ अ. नाप्र० । ६ अ ०नाल०, प. माल० ७ व प. ह्यनुत्क० ! For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy