SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः। २३३ अत्र गलन्तीति क्रियारूपं सर्वान् प्रत्येकधर्मत्वमिदमेव दीपकं च । तद्रहिता च यथा" उत्क्षिप्तं सह कौशिकस्य पुलकैः साकं मुखैनामितं भूपानां जनकस्य संशयधिया साधं समास्फालितम् । वैदेहीमनसा समं च सहसा कुष्टं ततो भार्गवप्रौढाईकृतिकन्दलेन च समं भग्नं तदैशं धनुः ॥ ६३२॥" गुणरूपधर्मा यथा'' सह दीर्घा मम श्वासैरिमाः सम्प्रति रात्रयः । पाण्डुराश्च ममैवाङ्गैः सह ताश्चन्द्रभूषणाः ॥ ६३३ ॥" अत्र रात्रीणां श्वासाङ्गानां च दैर्ध्वगुणेन पाण्डुरत्वगुणेन चैकधर्मस्वम् । इयं च सहोक्तिः प्रायः क्रोडस्थातिशयोक्तिरेवोपनिबद्धव्या । यथाऽत्रैव कोकिलालापेत्यादौ । अत्र हि वासरवृद्धिः कारणम् , जनानन्दवृद्धिश्च कार्यम् । तयोः समकालोक्ती पौर्वापर्यविध्वंसेनातिशयोक्तिः स्फुरन्ती प्रतिभातीत्वेयं सर्वत्र विचार्यम् । तत्परिमलमन्तरेण पुन: — अनेन सार्द्ध विहराम्बुराशेस्तीरेषु तालीवनमर्मरेषु ।' इत्यादावपि सहोक्तिप्रसङ्गः । 'अस्तं भास्वान् प्रयातः सह रिपुभिरयं सहियन्तां बलानि ।' इत्यत्र पुनरस्तं प्रयात इत्यस्तैकक्रियायोगोऽस्ति च भेदेऽप्य भेद इत्येवं. रूपातिशयोक्तिरस्तमित्यस्योभयार्थत्वादिति ॥ ५ ॥ अर्थतस्या एव स्वरूपान्तरमाह.. सहार्थानां परित्यागादिवादीनां परिग्रहे । गर्भीकृतोपमारूपा सेयमौपम्यगर्भिता ॥ ६ ॥ १ अ. च उ०। २ व. ०क्तिः स्फु० । ३ प. स्त्ये । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy