SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३२ अलङ्कारमहोदधौ __ अथातिशयोक्तिसब्रह्मचारिणी सहोक्तिमाहसहायोगे या मुख्यामुख्ययोरेकधर्मता । क्रोडस्थातिशयोक्तिः सा सहोक्तिरिति विश्रुता ॥ ५ ॥ सहार्थानां सह साकं साधं प्रभृतिशब्दाना योगे सम्बन्धे सति मुख्यं वर्ण्यमानत्वेन प्रधानकारणभूतममुख्यं तु तदनुगामितया वर्ण्यमानत्वादप्रधान कार्यभूतं तयोर्या काचिदेकधर्मता एकः क्रियारूपो गुणरूपो वा धर्मों ययोस्तौ तथा तयोर्भावः। या चेयमेकधर्मता सा सहोक्तिरिति विश्रुता विख्याता । तत्र क्रियारूपधर्मो यथा" कोकिलालापमधुराः सुगन्धिवनवायवः । यान्ति साई जनानन्दैवृद्धिं सुरभिवासराः ॥ ६२९ ॥" अत्र वासराणां जनानन्दानां च कर्तृभूतानां वृद्धि यान्तीति क्रियारूपमेकधर्मत्वम् । धर्मसम्बन्धश्च वासराणां शाब्दो जनानन्दानां पुनरार्थः । यथा वा*" उज्झसि पियाइ समयं तह वि अरे ! भणसि कीस किसिति । उँ अरिभरेण अयाणुअ ! मुंयइ बहल्लो वि अंगाई ॥ ६३० ॥" अत्रापि युष्मदर्थप्रिययोः कर्मभूतयोरुह्यस इति क्रियारूपं धर्मैक्यम् । मालारूपा त्लेका दीपकोपस्कृता तद्रहिता च दृश्यते । यथा+" धीरेण समं जामा हिअएण समं अणिद्विआ उबएसा । उत्सा(च्छा)हेण सह भुआ वाहेण समं गलंति से उल्लावा ॥६३१॥" * उघसे प्रियया समदं तथापि अरे ! भणसि कथं कृशितेति । पश्यारिभरेणाझ ! मुन्चति बलीवर्दोऽप्यङ्गानि ॥ + धैर्येण समं यामा हृदयेन सममनिष्ठिता उपदेशाः । ससाहेन समं सुजौ बाष्पेण समं गलन्ति तस्य उल्लापाः ।। १ व. स्मृता । २ प. ०ह सार्था० । ३ प. व. ०ने का० । ४ प. रावमः । ५ प. यत्ति । ६ प. ओ। . अ. •णु मु० । व. मुअइ । ८ अ.व, पं त्वे०। ९ प. जन्मो। १० प.उपए.11११. भुया, द. सम। For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy